This page has not been fully proofread.

२० स्तोत्रम् ]
 
तद्विलासहसितं किमित्याह-
येनोपमन्युमपमन्युमनन्यभाज-
माजन्मतृष्णजमजत्रमज श्रमार्तम् ।
आनन्दयः स्वयमदीननदीनदान -
भास्वन्महाफललसत्कुसुमोपमेन ॥ ३ ॥
 
न जातोऽजोऽनादिस्तत्संबोधनं हे अज अनादे, अपगतो मन्यू रोष: परद्रोहादिर्यस्य
स तादृशम् । तथा नान्यं विभुं भजतीत्यनन्यभाक् तादृशम् । तथा आजन्म जन्मारभ्य
तृष्णक् पिपासुस्तम् । अत एवाजस्रं श्रमेण खेदेनार्त खेदकदर्थितमुपमन्युमुपमन्युमुनिं
बालं येन विलासहसितेन स्वयमानन्दयः सानन्दमकरोः । किंभूतेन हसितेन येन ।
अदीनोऽकातरो यो नदीनामिनः स्वामी समुद्रः क्षोरोदस्तस्य दानं तदेव भास्वद्भा-
स्वरं महाफलं तत्र लसच्छोभमानं यत्कुसुमं तस्योपमा यस्य तत्तादृशेन । क्षीरोददाना-
ख्यप्रदेनेत्यर्थः ॥
 
तद्धसितं किमित्याह-
स्तुतिकुसुमाञ्जलिः ।
 
२८१
 
येनापि तापविपदं प्रथमं जहर्थ
नाथ प्रसादसुभगेन भगीरथस्य ।
मूर्ध्ना धृतत्रिदशसिन्धुमहाप्रवाह-
निर्वापणेन पुनरस्य पितामहानाम् ॥ ४ ॥
 
हे नाथ शंभो, प्रसादेन सुभगं रम्यं तादृशेन येन विलासहसितेन भगीरथस्यापि
सगरवंशजस्य तापविपदं तापो मदीयपितामहाः कपिलमुनीश्वरशापदग्धा निरये पतिता
इति यः पश्चात्तापः स एव विपत्ताम् । प्रथमं भगीरथस्य राज्ञो निजभक्तस्य जहर्थ
हृतवानसि । पुनस्तदाराधनतुष्टेन भवता मूर्ध्ना धृता या त्रिदशसिन्धुर्गङ्गा तस्या यो
महाप्रवाहस्तेन यनिर्वापणं शीतलीकरणं तेन । पुनरस्य भगीरथस्य पितामहानां सगर-
वंशजानां तापोऽतितृष्णासंताप एव विपत्तां जहर्थ । तेन भवत्प्रसादोपनतस्वर्गङ्गानीर-
प्रवाहेण तत्पितामहोद्धरणमकरोरित्यर्थः ॥
 
अत्र प्रसङ्गेन विभोः कालदाहापदानं वर्णयति -
 
-
 
उत्प्रासनाय शमनस्य मनस्यनल्प-
दर्पोद्गमप्रशमविक्लवविक्रमस्य ।
 
आश्वासनाय च समं समभावि येन
 
कीनाशपाशविवशस्य नरेश्वरस्य ॥ ५ ॥
'स्यादाच्छुरितकं हासः सोत्प्रासः' इत्यूर्ध्व प्रकर्षेणासनं गमनमुत्प्रास आधिक्यम् ।
 
३६
 
Digitized by Google