This page has been fully proofread once and needs a second look.

२८०
 
काव्यमाला ।
 
तथा कृत्तो भेदितः शोकस्य जन्मजरादिदुःखस्यातिरेक
 

आधिक्यं येन स तादृशः सुप्र-

सिद्ध एको भुजगहारः फणिहार: श्रीशिवभहाट्टारक एव गतिः शरणं मादृशां भव-

तीति शिवम् ॥
 

 
इति
 

श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं काश्मीरक-

महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ

भगवद्रूपवर्णनमेकोनविंशं स्तोत्रम् ।
 

 
विंशं स्तोत्रम् ।
 

 
अथातस्त्रिजगदनुग्रह निरतस्य श्रीशंभोर्हसितवर्णनं नाम विविंशं स्तोत्रमारभमाण आह
-
यदिति । यत्सौभगेनेत्यादि श्लोकपञ्चविंशत्या कुलकेन श्रीशिवभट्टारकस्य विलासहसितं

वर्णयति कविः-

 
यत्सौभगेन घनमोघममोघमेघं
 

संघातसंभवमवन्ध्यमधः करोति ।

तच्छाम्भवं भवमरुभ्रमखेदभेद-

दक्षं विलासहसितं नुतिभिर्भजामः ॥ १ ॥

 
श्रीशंभोर्यत्क्रीडासितं सुभगस्य भावः सौभगं रामणीयकं प्राशस्त्यं प्रागल्भ्यं वा ।

तेन हेतुना अवन्ध्यं सफलं सत् अमोघः सर्वथा फलदायी यो मेघसंघातः पर्जन्यसमूह-

स्तत्संभवं घनमोघं प्रवाहममृतमयमघः करोति जयति तच्छांभवं श्रीशंभुसंबन्धि विला-

सहसितं क्रीडासितं स्मितं नुतिभिः स्तुतिभिर्वयं भजामः सेवामहे । तदेव स्तुवीमही -

त्यर्थः । किंभूतं तत् । संसार एव मरुर्निर्जलो दूरोऽध्वा तत्र भ्रमेण यः खेदस्तस्य भेद-

स्तत्र दक्षं निपुणम् । देहिनामिति शेषः ॥

तद्धसितं किमित्याह -
 

 
यद्वाङ्मयं सकलवाङ्मनसातिवृत्त-

सीमानमीश महिमानममानमेयम् ।

अस्मादृशं कृशदृशं भृशमामृशन्त-

मन्तर्विमृष्य भवतो भगवन्नुदेति ॥ २ ॥
 

 
हे भगवन्नैश्वर्यादिषङ्गुणनिधे, यद्विलासहसितमुदेत्युत्पद्यते । कस्य । भवतो विभोः ।

किं कृत्वा । अस्मादृशं मूढं चर्मचक्षुषं विमृश्य । कुत्र । अन्तर्मनसि । अस्मादृशं किंभू-

तम् । तावकं महिमानं भवदीयमाहात्म्यमामृशन्तं विचारयन्तम् । पुनः किंभूतमस्मा-

दृशम् । कृशा मन्दा दृक् ज्ञानं यस्य स तादृशम् । तावकं महिमानं किंभूतम् । सकले-

त्यादि । वाक्च मनश्च वाङ्मनसम् । तदतिवृत्तः सकल: सीमा यस्य स तादृशम् ।

अवाङ्मनसगोचरमित्यर्थः । सीमावधिः । पुनः किंभूतम् । अमानमेयं न मानैः प्रत्यक्षा-

नुमानादिभिर्मेयो मातुं शक्यस्तादृशम् ॥
 
Digitized by Google