2023-02-23 21:27:45 by ambuda-bot
This page has not been fully proofread.
१९ स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
२७९
हे विमो, विनात्वत्त्वत्तो विना इह त्रिजगति कस्य राजशिरोमणित्वम् । 'राजा भूपे
शशाङ्के च' इति मङ्गः । राजा चन्द्रः कलारूपः शिरोमणिर्यस्य स तस्य भावस्तत्त्वं क
स्यान्यस्यास्ति । तवैव नान्यस्येत्यर्थः । अथ च राज्ञां मध्ये शिरोमणिः सार्वभौमस्तद्भा-
वश्वासौ । द्वावपि विशेषणैर्विशिष्टि-तव किंभूतस्य दाने दानविषये उपमन्युदान-
विषये नदीनं नदीनामिनः प्रभुः समुद्रः क्षीरोदस्तं सहर्ष सानन्दं कृत्वोपकल्पयतः संक-
ल्पयतः । तथा गां वृषभम् । गोशब्दः पुंसि वृषभवाचकः । तमाक्रम्याधिरुत्यानुपमाम-
नन्यसदृशीं गतिमास्थितस्याश्रितस्य तथा नागेन्द्रैर्वासुक्यादिभिः संभृतानि महान्ति
कटकानि कङ्कणानि यस्य स तथा सार्वभौमपक्षे दानेन वितरणेन दीनं दीनजनं सहर्षे
सप्रमोदमुपकल्पयतः कुर्वतः । तथा गां भूमिं सद्वीपामाक्रम्यानुपमां गतिं शक्तिमास्थि-
तस्याश्रितस्य तथा नागेन्द्रैः करिपुंगवैः संभृतं पूरितं महत्कटकं सैन्यं यस्य स ताह-
शस्य । शब्दश्लेषोऽलंकारः ॥
कण्ठे विषं विषभृतोऽपि विभूषणानि
गात्रेषु मूर्धनि विषं विबुधत्रवन्त्याः ।
इत्थं विषैकवसतेरपि ते चकास्ति
कर्णामृतं सुकृतिनाममृतेशनाम ॥ ३० ॥
हे विभो, तव कण्ठे गले विषं कालकूटाख्यो विषभेदश्चकास्ति । तथा तव गात्रेष्वव
यवेषु शिरःकरचरणादिष्वपि विषभृतो विषधराः सर्पा वासुक्यादयश्वकासति । तथा
तव मूर्ध्नि शिरसि सुरस्रवन्त्याः स्वर्णद्या विषं वेवेष्टि व्याप्नोति कायमिति विषं जलं च-
कास्ति । इत्थमनेन प्रकारेण विषाणां प्रागुक्तानां वसतेः स्थानभूतस्यापि ते अमृतेशेति
नाम अमृतस्य कैवल्यस्य रसायनस्य चेशः स्वामी अमृतेशः । अमृतेश इति नाम
सुकृतिनां पुण्यवतां कर्णामृतं श्रोत्ररसायनं भवतीत्यद्भुतम् ॥
एतस्य स्तोत्रस्योपसंहारं वृत्तेनैकेनाह -
क्षतविभवविशेषाः प्राणमात्रावशेषा
विपदमनुभवामः कर्मपाको हि वामः ।
तदिह भुजगहारः ऋप्तमोहापहारः
स भवति गतिरेकः कृत्तशोकातिरेकः ॥ ३१ ॥
क्षतः क्षीणः । निवृत्त इत्यर्थ: । क्षतो निवृत्तो विभवविशेष ऐश्वर्योत्कर्षो येषां ते
तादृशाः । अत एव प्राणमात्रमवशेषो येषां ते तादृशा वयं विपदं जन्मजरामरणापदम-
नुभवामः । अत्र हेतुमाह - हि यस्मात्कारणात्कर्मपाकः प्राचीनकर्मविपाको वामः प्रति-
कूलः । अर्थादस्माकम् । यतः । तत्तस्मात्कारणादिह जगति क्लृकॢप्तमोहापहारः । अनात्म-
न्यात्मबुद्धिर्मोहः । कॢप्तो निष्पादितो मोहस्याज्ञानस्यापहारो नाशो येन स तादृशः ।
Digitized by Google