This page has been fully proofread once and needs a second look.

२७८
 
काव्यमाला ।
 
हे परमेश्वर, जगद्गुरुभिर्ब्रह्मविष्णुमहेश्वरादिभिर्महाप्रलयकाले कालाग्निरुद्ररूपेण सं-

हारितैस्तव पादपीठे यानि निजानि शिरांस्यर्पितानि तान्येव शिरांसि तत्कपालमाला-

रूपाणि त्वं मूर्धनि स्वशिरसि यदाभरणीकरोष्याभरणानि संपादयसि स कोऽप्यनिर्वाच्य-

स्तव कृतज्ञतायाः प्रौढिमा प्राधान्यं जयति सर्वोत्कृष्टत्वेन वर्तते । 'परोपकारतत्त्वज्ञो यः

कृतज्ञः स उच्यते ।' तद्भावः कृतज्ञता ॥
 

 
निर्वाणमेति न जलैरपि यत्र वहिह्नि-

र्यत्रैष नो पचति तानि महाशिखोऽपि ।

मान्द्यं न विन्दति तमीरमणः कृशोऽपि
 

ताभ्यामसौ विजयते शितिकण्ठ जूटः ॥ २७ ॥
 

 
हे शितिकण्ठ नीलगल, यत्र तव जूटे कपर्दे जलैरपि स्वर्गङ्गावारिभिरपि वह्निः स-

मीपस्थो विलोचनाग्निर्निर्वाणं शान्तितिं नैति न प्राप्नोति । तथैष वह्निरपि महाशिखो म

हत्यो जाज्वल्यमानाः शिखा हेतयो यस्य स तादृगपि तानि स्वर्गङ्गाजलानि नो पचति

नाचामति । तथा ताभ्यां जलवह्निभ्यामपि स्वयं कृशोऽपि एककलत्वात्तमीरमण-

श्
चन्द्रोऽपि मान्द्यं मन्दकान्तित्वं न विन्दति न लभते सोऽद्भुतस्तव जूट: कपर्दो विज-

यतेऽत्युत्कृष्टो भवति ॥
 

 
भालस्थले हुतवहं वहतो जलं च
 

चन्द्रं च मूर्ध्नि विकटं च कपालखण्डम् ।

एकत्र मुण्डमपरत्र सुधाघटं च
 

हस्ते चकास्ति भवतोऽद्भुत एष वेषः ॥ २८ ॥
 

 
हे विभो, एष तवाद्भुत आश्चर्यकारी वेषो नेपथ्यं चकास्ति शोभते । वेवेष्टि व्या-

प्रोत्यङ्गं वेषः । 'विष्ऌ व्याप्तौ पचाद्यच् । वेषो मूर्धन्यान्तः । विशन्ति नेत्रमनांस्यत्रेति

वेशः । अधिकरणे वा घञ् । वेशस्तालव्यान्तश्च । 'वेषो मूर्धन्यान्तस्तालव्यान्तश्चेति

प्रागुक्तम्' इति रायमुकुट्याम् । एष वेषः क इत्याह - भालस्थले ललाटतटे हुतवहममिं
ग्निं
जलं स्वर्गङ्गाजलं च वहतो धारयतस्तव । तथा मूर्ध्नि चन्द्रं कलारूपं च विकटं विस्तीर्
णं
कपालखण्डं च वहतस्तव एकत्रैकस्मिन्हस्ते मुण्डं ब्रह्मशिरः कपालमपरत्रापरस्मिन्हस्ते-

ऽमृतकलशं च वहतस्तवाद्भुत आश्चर्यकारी वेषो नेपथ्यं चकास्ति ।

 
दानेन दीनमुपकल्पयतः सहर्ष-

माक्रम्य गामनुपमां गतिमास्थितस्य ।

नागेन्द्रसंभृतमहाकटकस्य कस्य
 

शस्यं विनात्वदिह राजशिरोमणित्वम् ॥ २९ ॥
 
Digitized by Google