This page has not been fully proofread.

२७८
 
काव्यमाला ।
 
हे परमेश्वर, जगद्गुरुभिर्ब्रह्मविष्णुमहेश्वरादिभिर्महाप्रलयकाले कालाग्निरुद्ररूपेण सं-
हारितैस्तव पादपीठे यानि निजानि शिरांस्यर्पितानि तान्येव शिरांसि तत्कपालमाला-
रूपाणि त्वं मूर्धनि स्वशिरसि यदाभरणीकरोष्याभरणानि संपादयसि स कोऽप्यनिर्वाच्य-
स्तव कृतज्ञतायाः प्रौढिमा प्राधान्यं जयति सर्वोत्कृष्टत्वेन वर्तते । 'परोपकारतत्त्वज्ञो यः
कृतज्ञः स उच्यते ।' तद्भावः कृतज्ञता ॥
 
निर्वाणमेति न जलैरपि यत्र वहि-
र्यत्रैष नो पचति तानि महाशिखोऽपि ।
मान्द्यं न विन्दति तमीरमणः कृशोऽपि
 
ताभ्यामसौ विजयते शितिकण्ठ जूटः ॥ २७ ॥
 
हे शितिकण्ठ नीलगल, यत्र तव जूटे कपर्दे जलैरपि स्वर्गङ्गावारिभिरपि वह्निः स-
मीपस्थो विलोचनाग्निनिर्वाणं शान्ति नैति न प्राप्नोति । तथैष वह्निरपि महाशिखो म
हत्यो जाज्वल्यमानाः शिखा हेतयो यस्य स तादृगपि तानि स्वर्गङ्गाजलानि नो पचति
नाचामति । तथा ताभ्यां जलवह्निभ्यामपि स्वयं कृशोऽपि एककलत्वात्तमीरमण-
चन्द्रोऽपि मान्यं मन्दकान्तित्वं न विन्दति न लभते सोऽद्भुतस्तव जूट: कपर्दो विज-
यतेऽत्युत्कृष्टो भवति ॥
 
भालस्थले हुतवहं वहतो जलं च
 
चन्द्रं च मूर्ध्नि विकटं च कपालखण्डम् ।
एकत्र मुण्डमपरत्र सुधाघटं च
 
हस्ते चकास्ति भवतोऽद्भुत एष वेषः ॥ २८ ॥
 
हे विभो, एष तवाद्भुत आश्चर्यकारी वेषो नेपथ्यं चकास्ति शोभते । वेवेष्टि व्या-
प्रोत्यङ्गं वेषः । 'विष्ऌ व्याप्तौ पचाद्यच् । वेषो मूर्धन्यान्तः । विशन्ति नेत्रमनांस्यत्रेति
वेशः । अधिकरणे वा घञ् । वेशस्तालव्यान्तश्च । 'वेषो मूर्धन्यान्तस्तालव्यान्तश्चेति
प्रागुक्तम्' इति रायमुकुट्याम् । एष वेषः क इत्याह - भालस्थले ललाटतटे हुतवहममिं
जलं स्वर्गङ्गाजलं च वहतो धारयतस्तव । तथा मूर्ध्नि चन्द्रं कलारूपं च विकटं विस्तीर्ण
कपालखण्डं च वहतस्तव एकत्रैकस्मिन्हस्ते मुण्डं ब्रह्मशिरः कपालमपरत्रापरस्मिन्हस्ते-
ऽमृतकलशं च वहतस्तवाद्भुत आश्चर्यकारी वेषो नेपथ्यं चकास्ति ।
दानेन दीनमुपकल्पयतः सहर्ष-
माक्रम्य गामनुपमां गतिमास्थितस्य ।
नागेन्द्रसंभृतमहाकटकस्य कस्य
 
शस्यं विनात्वदिह राजशिरोमणित्वम् ॥ २९ ॥
 
Digitized by Google