This page has been fully proofread once and needs a second look.

१९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
सत्यं प्रसादसमये चपलत्वमेति
 

धत्तेऽधिकं च कुटिलत्वमियं तव भ्रूः ।

एतां विना पुनरनर्गलकालपाश-

पाते परास्ति न गतिर्भयविह्वलानाम् ॥ २३ ॥
 

 
हे विभो, सत्यं निश्चितमेतत् इयं तव भ्रूः प्रसादसमये भक्तिप्रह्वजनस्यानुग्रहकाले च-

पलत्वं संज्ञयाभीप्सितप्रतिपादनार्थं चञ्चलत्वमेति प्राप्नोति । तथाधिकं कुटिलत्वं च

धत्ते । एतां तव भ्रुवं पूर्वोक्तानुग्रहपरां विना पुनर्निर्निरोधमृत्युपाशपाते भयविह्वलानामश-

रणानां दीनानां परान्या गतिर्नास्ति । सैव तेषां शरणम् । केवलं त्राणविधायिनीत्यर्थः ॥

 
आपूरितः सुरसरित्पयसामृताय
 
२७७
 

जूटः प्रतप्ततपनीयपिशङ्गकान्तिः ।

स्वामिन्नसौ तव नवातपताम्रवेला-

शैलोपगूढ इव दुग्धनिधिर्न कस्य ॥ २४ ॥
 

 
हे स्वामिन्, प्रतप्तमग्निना प्रकर्षेण द्रवीकृतं निर्मलीकृतं च यत्तपनीयं सुवर्णं तत्स
-
दृशी पिशङ्गा कान्तिर्यस्य स तादृक् स्वर्गङ्गाजलप्रवाहेणापूरितस्तव जूटो जटाजूट: कप-

र्दोऽसौ नवातपेन बालातपेन ताम्रश्चासौ वेलाशैलस्तेनोपगूढ आलिङ्गितः परिवलितो दु-

ग्धनिधिः क्षीरोद इवामृताय सुधायै भवति ॥
 

 
स्वामिन्सुधाव दवदातरुचिस्तवेय-

माभाति हन्त मुकुटे नृकपालमाला ।

जूटान्तरालविलसत्सुरसिन्धुतीर-

लीलाविहाररसिकेव मरालमाला ॥ २५ ॥
 
>
 

 
हन्ताश्चर्ये । हे स्वामिन् सुधावदवदाता निर्मला रुचिर्दीप्तिर्यस्याः सा नृकपाल-

माला । नयन्त्युत्तमां गतिमात्मानं नरः । .......... । नरा अत्र महापुरुषा ब्रह्मादयः ।

तेषां महाप्रलयकाले कालाग्निरुद्ररूपेण संहारितत्वाद्या कपालमाला इयं शिरोस्थिमाला

तव विभोर्मुकुटे आभाति । केव। मरालमाला हंसमालेव । किंभूता सा । जूटान्तराले

कपर्दमध्ये विलसन्ती या गङ्गा तस्यास्तीरे क्रीडारसिका ॥
 

 
ब्रह्मादिभिस्तव जगद्गुरुभिः शिरांसि

यान्यार्पितानि परमेश्वर पादपीठे ।
 

तान्येव मूर्धनि यदाभरणीकरोषि
 

स प्रौढिमा जयति कोऽपि कृतज्ञतायाः ॥ २६ ॥
 
Digitized by Google