This page has not been fully proofread.

१९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
सत्यं प्रसादसमये चपलत्वमेति
 
धत्तेऽधिकं च कुटिलत्वमियं तव भ्रूः ।
एतां विना पुनरनर्गलकालपाश-
पाते परास्ति न गतिर्भयविहलानाम् ॥ २३ ॥
 
हे विभो, सत्यं निश्चितमेतत् इयं तव भ्रूः प्रसादसमये भक्तिप्रजनस्यानुग्रहकाले च-
पलत्वं संज्ञयाभीप्सितप्रतिपादनार्थ चञ्चलत्वमेति प्राप्नोति । तथाधिकं कुटिलत्वं च
धत्ते । एतां तव भ्रुवं पूर्वोक्तानुग्रहपरां विना पुनर्निर्निरोधमृत्युपाशपाते भयविहलानामश-
रणानां दीनानां परान्या गतिर्नास्ति । सैव तेषां शरणम् । केवलं त्राणविधायिनीत्यर्थः ॥
आपूरितः सुरसरित्पयसामृताय
 
२७७
 
जूटः प्रतप्ततपनीयपिशङ्गकान्तिः ।
स्वामिन्नसौ तव नवातपताम्रवेला-
शैलोपगूढ इव दुग्धनिधिर्न कस्य ॥ २४ ॥
 
हे स्वामिन्, प्रतप्तमग्निना प्रकर्षेण द्रवीकृतं निर्मलीकृतं च यत्तपनीयं सुवर्ण तत्स
दृशी पिशङ्गा कान्तिर्यस्य स तादृक् स्वर्गङ्गाजलप्रवाहेणापूरितस्तव जूटो जटाजूट: कप-
दर्दोऽसौ नवातपेन बालातपेन ताम्रश्चासौ वेलाशैलस्तेनोपगूढ आलिङ्गितः परिवलितो दु-
ग्धनिधिः क्षीरोद इवामृताय सुधायै भवति ॥
 
स्वामिन्सुधाव दवदातरुचिस्तवेय-
माभाति हन्त मुकुटे नृकपालमाला ।
जूटान्तरालविलसत्सुरसिन्धुतीर-
लीलाविहाररसिकेव मरालमाला ॥ २५ ॥
 
>
 
हन्ताश्चर्ये । हे स्वामिन् सुधावदवदाता निर्मला रुचिर्दीप्तिर्यस्याः सा नृकपाल-
माला । नयन्त्युत्तमां गतिमात्मानं नरः । .......... । नरा अत्र महापुरुषा ब्रह्मादयः ।
तेषां महाप्रलयकाले कालाग्निरुद्ररूपेण संहारितत्वाद्या कपालमाला इयं शिरोस्थिमाला
तव विभोर्मुकुटे आभाति । केव। मरालमाला हंसमालेव । किंभूता सा । जूटान्तराले
कपर्दमध्ये विलसन्ती या गङ्गा तस्यास्तीरे क्रीडारसिका ॥
 
ब्रह्मादिभिस्तव जगद्गुरुभिः शिरांसि
यान्यार्पतानि परमेश्वर पादपीठे ।
 
तान्येव मूर्धनि यदाभरणीकरोषि
 
स प्रौढिमा जयति कोऽपि कृतज्ञतायाः ॥ २६ ॥
 
Digitized by Google