This page has been fully proofread once and needs a second look.

२७६
 
काव्यमाला ।
 
न्यस्य धन्यस्य धैर्यमेव सर्वस्वं न मुष्णन्ति । तेषां त्वद्ध्यानामृतसक्तचेतसां समाधिभ

ङ्ग
क्षमाणि तानि कदापि न भवन्तीत्यर्थः ॥
 

 
सत्येव दृग्विलसिते करुणामृतौघ-

शीते जरामरणहारिणि तावकीने ।

नाथ व्यधायि विबुधैरबुधैर्मुधैव
 

दुग्धोदधिप्रमथनेऽनवधिः प्रयासः ॥ २० ॥
 

 
हे नाथ जगदीश, कृपारसामृतप्रवाहात्यन्तशीतले जन्मजरामरणरूपात्यसाध्यरोगहरे

तावकीने भावत्के दृग्विलसिते सत्येवाबुधैर्मूढैर्विषु बुधैर्देवैर्दुग्धोदधिमथने बहिः शीतलता-

मात्रगुणं केवलजरामृत्युहरममृतं लब्धं वृथा प्रयत्नो व्यधायि कृतः ॥

 
श्वेते विषं यदसृजद्रविजे च वहिह्नि-

मेकैव दृक्तव तयोः स निजः स्वभावः ।

इक्षौ सुधाविषमुषाणफले च सा
 
र्धं
यद्वर्धते किमपराध्यति तत्र वृष्टिः ॥ २१ ॥
 

 
हे ईश्वर शंभो, तव विभोः करुणामृतसागरस्य एकैव दृग्दृष्टिः श्वेते श्वेताख्ये राज-

न्यमृतं दयारूपं पीयूषं यदसृजत् तथा रविजे यमे च वह्निदाहकरं विलोचनाग्निं तु-

ल्यकालं यच्चासृजत्स तयोरतिशमातिक्रोधभरितमनसो निजः स्वभाव एव । न तु सदा

कृपामृतपूर्णायाः शिवदृष्टेर्दोष इत्यर्थः । दृष्टं चैतत्- इक्षौ पुण्ट्णड्रकनामेक्षुभेदे सुधा अ-

मृततुल्यो रसो यद्वद्वर्धते तथा तत्समीपवर्तिन्युषाणाख्यफलभेदे च यद्विषं सार्धं सम-

मेव वर्धते तत्र वृष्टिर्मेघवृष्टिः किमपराध्यति किमपराधं भजते ॥
 

 
नूनं पयोधिमथनावसरे [^१]परेश
 

पीतं त्वया तदमृतं न तु कालकूटम् ।

अद्यापि यद्वसति ते वचनक्रमे च
 

दृग्विभ्रमे च तरुणे करुणारसे च ॥ २२ ॥
 

 
नूनं निश्चये संभावनायां वा । हे ईश शंभो, क्षीरोदधिमथनकाले त्वया तत्प्रसिद्धम-

मृतमेव पीतं न तु तत्कालकूटं विषं पीतम् । तत्कुत इत्याह – हे विभो, तव वचनक्रमे च

वचनानामशरणजनाभयदानवचसां क्रमे च दृग्विभ्रमे प्रसादावलोकितविलासे च तथा

तरुणे नूतने करुणारसे कृपामृतरसे चामृतमेव यद्वसति अतस्त्वया दयालुनामृतमेव पीत-

मिति मन्ये । प्रत्येकं चशब्दो वचनक्रमादीनां प्राधान्यद्योतकः ॥
 

 
[^
]. 'सुरेश' ख.
 
Digitized by Google