2023-02-23 21:27:44 by ambuda-bot
This page has not been fully proofread.
२७६
काव्यमाला ।
न्यस्य धन्यस्य धैर्यमेव सर्वस्वं न मुष्णन्ति । तेषां त्वयानामृतसक्तचेतसां समाधिभ
अक्षमाणि तानि कदापि न भवन्तीत्यर्थः ॥
सत्येव दृग्विलसिते करुणामृतौघ-
शीते जरामरणहारिणि तावकीने ।
नाथ व्यधायि विबुधैरबुधैर्मुधैव
दुग्धोदधिप्रमथनेऽनवधिः प्रयासः ॥ २० ॥
हे नाथ जगदीश, कृपारसामृतप्रवाहात्यन्तशीतले जन्मजरामरणरूपात्यसाध्यरोगहरे
तावकीने भावत्के दृग्विलसिते सत्येवाबुधैर्मूढैर्विषु धैर्देवैर्दुग्धोदधिमथने बहिः शीतलता-
मात्रगुणं केवलजरामृत्युहरममृतं लब्धं वृथा प्रयत्नो व्यधायि कृतः ॥
श्वेते विषं यदसृजद्रविजे च वहि-
मेकैव दृक्तव तयोः स निजः स्वभावः ।
इक्षौ सुधाविषमुषाणफले च सा
यद्वर्धते किमपराध्यति तत्र वृष्टिः ॥ २१ ॥
हे ईश्वर शंभो, तव विभोः करुणामृतसागरस्य एकैव दृग्दृष्टिः श्वेते श्वेताख्ये राज-
न्यमृतं दयारूपं पीयूषं यदसृजत् तथा रविजे यमे च वह्निदाहकरं विलोचनानिं तु-
ल्यकालं यच्चासृजत्स तयोरतिशमातिक्रोधभरितमनसो निजः स्वभाव एव । न तु सदा
कृपामृतपूर्णायाः शिवदृष्टेर्दोष इत्यर्थः । दृष्टं चैतत्- इक्षौ पुण्ट्रकनामेक्षुभेदे सुधा अ-
मृततुल्यो रसो यद्वद्वर्धते तथा तत्समीपवर्तिन्युषाणाख्यफलभेदे च यद्विषं सार्ध सम-
मेव वर्धते तत्र वृष्टिर्मेघवृष्टिः किमपराध्यति किमपराधं भजते ॥
नूनं पयोधिमथनावसरे परेश
पीतं त्वया तदमृतं न तु कालकूटम् ।
अद्यापि यद्वसति ते वचनक्रमे च
दृग्विभ्रमे च तरुणे करुणारसे च ॥ २२ ॥
नूनं निश्चये संभावनायां वा । हे ईश शंभो, क्षीरोदधिमथनकाले त्वया तत्प्रसिद्धम-
मृतमेव पीतं न तु तत्कालकूटं विषं पीतम् । तत्कुत इत्याह – हे विभो, तव वचनक्रमे च
वचनानामशरणजनाभयदानवचसां क्रमे च दृग्विभ्रमे प्रसादावलोकितविलासे च तथा
तरुणे नूतने करुणारसे कृपामृतरसे चामृतमेव यद्वसति अतस्त्वया दयालुनामृतमेव पीत-
मिति मन्ये । प्रत्येकं चशब्दो वचनक्रमादीनां प्राधान्यद्योतकः ॥
१. 'सुरेश' ख.
Digitized by Google