This page has been fully proofread once and needs a second look.

१९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
तधुक्तमीश वदनाद्भवतः [^१]सुधाच्छ-

कान्तेर्यदग्झिनिरपतद्वपुषि मरस्य ।
स्मरस्य ।
यो लङ्घनं त्रिभुवनैकगुरोर्विधित्सु -
 

रुल्का न किं पतति चन्द्रमसोऽपि तस्य ॥ १७ ॥
 
२७५
 

 
हे ईश जगदीश, अभिग्निस्तृतीयनयनानलरूपः सुधाच्छकान्तेः पीयूषादप्यतिनिर्मलच्छ-

वेरमृतमयाद्भवतो वदनान्मुखात्स्मरस्य कामस्य त्रिलोकनाथमपि भवन्तं लिलङ्घयिषो-

र्वपुषि देहे यदपतत्तद्युक्तमुत्र रवि <flag></flag>मेव । यः स्मरस्त्रिभुवनैकगुरोरपि भवत उल्लङ्घनमाक्रान्ति-

रूपं पराभवं विधित्सुः कर्तुमिच्छुस्तस्य चन्द्रमसोऽप्युल्का विद्युद्भेदः किं न पतति ।

अपि तु पतत्येव ॥
 

 
दिष्ट्या विरुद्धजनता दमयन्त्यपीयं
 

दृष्टिस्तवेश्वर बिभर्त्यनलाश्रितत्वम् ।

दृष्ट्या वनैकरतिरप्यवनैकसक्ति-

रेकस्त्वमद्भुतनिधे भगवन्नमस्ते ॥ १८ ॥
 

 
हे ईश्वर शंभो, दिष्ट्या आनन्दे । 'दिष्ट्या शमुपजोषं च आनन्दे' इत्यमरः । ज-

नानां समूहो जनता । 'ग्रामजनबन्धुसहायेभ्यस्तल् ।' विरुद्धजनता नास्तिकजनसमूहा-

न्दमयन्ती खण्डयन्त्यपि तवेयं दृष्टिस्तृतीयदृगनलाश्रितत्वमभ्ग्न्याश्रितभावं बिभर्ति ।

अथ च या दमयन्ती भीमराजदुहिता सा कथमनलाश्रितत्वं नलान्नलनाम्नो राज्ञोऽन्य-

स्तदाश्रितत्वं भजत इति विरोधः । अन्यार्थत्वेन तदभावे विरोधाभासः । एतदपि

दिष्ट्या आनन्दकारि । वने कानने एका रतिः सुखं यस्य स तादृगपि भवांस्त्रिजगतो-
sa

ऽव
ने रक्षणे एका सक्तिर्यस्य स तादृगेकस्त्वमसि । यो वनैकसक्तिः स कथमवनैकस-

क्तिर्भवतीति विरोधः । अन्यार्थत्वेन तदभावे विरोधाभासः । हे अद्भुतनिधे भगवन्, ते

तुभ्यं नमोऽस्तु ॥
 

 
धन्यस्य यस्य वपुषि ग्लपिते तपोभिः
 

स्वामिन्पतन्ति विषमाणि तवेक्षणानि ।

मुष्णन्ति मुग्धमृगशावदृशां न धैर्य-

सर्वस्वमस्य विषमाणि विलोचनानि ॥ १९ ॥
 

 
हे जगदीश स्वामिन्, तपोभिर्ग्र्लपितेऽत्यन्तक्षीणे यस्य धन्यस्य कृतिनो वपुषि कले-

वरे त्रिनेत्रत्वाद्विषमसंख्यानि तवेक्षणानि नेत्राणि पतन्ति मुग्धमृगशावदृशां बालकुरङ्ग-

शावकनेत्राणां वराङ्गनानामपि विषमाण्यत्यन्ततीक्ष्णानि कामशरतुल्यानि विलोचना-

 
[^
]. 'सुखाच्छ' ख.
 
Digitized by Google