This page has not been fully proofread.

१९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
तधुक्तमीश वदनाद्भवतः सुधाच्छ-
कान्तेर्यदग्झिरपतद्वपुषि मरस्य ।
यो लङ्घनं त्रिभुवनैकगुरोर्विधित्सु -
 
रुल्का न किं पतति चन्द्रमसोऽपि तस्य ॥ १७ ॥
 
२७५
 
हे ईश जगदीश, अभिस्तृतीयनयनानलरूपः सुधाच्छकान्तेः पीयूषादप्यतिनिर्मलच्छ-
वेरमृतमयाद्भवतो वदनान्मुखात्स्मरस्य कामस्य त्रिलोकनाथमपि भवन्तं लिलङ्घयिषो-
र्वपुषि देहे यदपतत्तद्युक्तमुत्र रमेव । यः स्मरत्रिभुवनैकगुरोरपि भवत उल्लङ्घनमाक्रान्ति-
रूपं पराभवं विधित्सुः कर्तुमिच्छुस्तस्य चन्द्रमसोऽप्युल्का विद्युद्भेदः किं न पतति ।
अपि तु पतत्येव ॥
 
दिष्ट्या विरुद्धजनता दमयन्त्यपीयं
 
दृष्टिस्तवेश्वर बिभर्त्यनलाश्रितत्वम् ।
दृष्ट्या वनैकरतिरप्यवनैकसक्ति-
रेकस्त्वमद्भुतनिधे भगवन्नमस्ते ॥ १८ ॥
 
हे ईश्वर शंभो, दिष्टया आनन्दे । 'दिष्टया शमुपजोषं च आनन्दे' इत्यमरः । ज-
नानां समूहो जनता । 'आमजनबन्धुसहायेभ्यस्तल् ।' विरुद्धजनता नास्तिकजनसमूहा-
न्दमयन्ती खण्डयन्त्यपि तवेयं दृष्टिस्तृतीयदृगनलाश्रितत्वमभ्याश्रितभावं बिभर्ति ।
अथ च या दमयन्ती भीमराजदुहिता सा कथमनलाश्रितत्वं नलान्नलनाम्नो राज्ञोऽन्य-
स्तदातत्वं भजत इति विरोधः । अन्यार्थत्वेन तदभावे विरोधाभासः । एतदपि
दिष्टया आनन्दकारि । वने कानने एका रतिः सुखं यस्य स तादृगपि भवांस्त्रिजगतो-
saने रक्षणे एका सक्तिर्यस्य स तादृगेकस्त्वमसि । यो वनैकसक्तिः स कथमवनैकस-
क्तिर्भवतीति विरोधः । अन्यार्थत्वेन तदभावे विरोधाभासः । हे अद्भुतनिधे भगवन्, ते
तुभ्यं नमोऽस्तु ॥
 
धन्यस्य यस्य वपुषि ग्लपिते तपोभिः
 
स्वामिन्पतन्ति विषमाणि तवेक्षणानि ।
मुष्णन्ति मुग्धमृगशावदृशां न धैर्य-
सर्वस्वमस्य विषमाणि विलोचनानि ॥ १९ ॥
 
हे जगदीश स्वामिन्, तपोभिग्र्लपितेऽत्यन्तक्षीणे यस्य धन्यस्य कृतिनो वपुषि कले-
वरे त्रिनेत्रत्वाद्विषमसंख्यानि तवेक्षणानि नेत्राणि पतन्ति मुग्धमृगशावदृशां बालकुरङ्ग-
शावकनेत्राणां वराङ्गनानामपि विषमाण्यत्यन्ततीक्ष्णानि कामशरतुल्यानि विलोचना-
१. 'सुखाच्छ' ख.
 
Digitized by Google