2023-02-23 21:26:59 by ambuda-bot
This page has not been fully proofread.
१४
काव्यमाला ।
रोत्पलदेवविरचितस्तोत्रावल्यां द्वितीये स्तोत्रे – 'संविन्मयाय ते' इति । अत्र हि
संविन्मयत्वं स्वातन्त्र्येणोल्लासिताशेषविश्वनिर्भरत्वम् । यद्वा परमार्थत एकरूपाय ए-
कस्मै असामान्याय परमात्मने परमशिवाय नमः । तथा च श्रीभट्टनारायणकृते स्तव-
चिन्तामणौ – 'मुहुर्मुहुरविश्रान्तस्त्रैलोक्यं कल्पनाशतैः । कल्पयन्नपि कोऽध्येको निर्वि-
कल्पो जयत्यजः ॥' इति । पुनश्च किंभूताय । स्वेच्छयावभासितः प्रकटीकृतो यो भेदो
द्वैतप्रथाख्यस्ततो भिन्नः पृथक्स्थः । परमशिवो भगवान्परमेश्वर एक एव तत्प्रतिथि-
म्बा एव सर्वे देवाद्या इत्यर्थः । तथा च श्रीमदभिनवगुप्ताचार्यविरचिते परमार्थसारे-
'नानाविधवर्णानां रूपं धत्ते यथामलः स्फटिकः । सुरमानुषपशुपादपरूपत्वं तद्वदीशो-
ऽपि ॥ इति ॥
नमः शिवाय निःशेषक्लेशप्रशमशालिने ।
त्रिगुणग्रन्थिदुर्भेदभवबन्धविभेदिने ॥ २ ॥
नमः शिवायेति । शिवाय परमेश्वराय नमोऽस्त्विति संबन्धः । किंभूताय । सूक्ष्मा
असूक्ष्माश्च ये क्लेशाः पश्च अविद्यास्मितारागद्वेषाभिनिवेशास्तेषां यः प्रशमस्त्रैकालिका-
भावस्तेन शाली तस्मै । क्लेशशब्दस्योपलक्षणतया कर्मविपाकाशयग्रहणम् । तेन क्लेश-
कर्मविपाकाशयैरपरामृष्टायेश्वराय नमोऽस्त्वित्यर्थः । क्लेशशब्देन रागद्वेषमोहा उच्यन्ते ।
अस्मिताभिनिवेशयोस्तत्रैवान्तर्भावात् । त्रिगुणेति । यतस्त्रित्वसंख्याका ये गुणाः प्री-
त्यप्रीतिविषादात्मकाः सत्त्वरजस्तम पदार्थास्त एव परमतत्त्वसंकोचदायित्वाग्रन्थि-
स्तेन दुर्भेदो दुर्वारो यो भवो देहेन्द्रियविषयसंबन्धरूपः संसारः स एव बन्धो बन्धनं तं
विभेत्तुं शीलमस्येति तस्मै । यद्वा शिवाय परमशिवाय नमोऽस्तु । ननु किमर्थ
परमशिव एव नमस्य: । यावता ब्रह्मादयोऽध्यस्मदुत्तीर्णाः सन्ति तेऽपि नमस्क-
रणयोग्या इति नेत्याह – निःशेषेति । निःशेषाः समस्ता ये क्लेशं प्रान्ति पूरयन्तीति क्ले-
शप्राः । 'प्रा पूरणे' धातुः । क्लेशप्रमादादयस्तेषां शमोऽत्यन्तोच्छेदस्तेन शाली। मायादयो
हि ब्रह्मादीनां विद्यन्ते । न तु परमशिवस्येति । स एव भगवाननवच्छिन्नप्रकाशानन्दस्वा-
तन्त्र्यपरमार्थः परमशिव एव नमस्यः । ननु परमशिवस्य मायाद्यभावेऽपि कुतो नम-
स्कार्यत्वमित्यत आह – त्रिगुणेति । त्रिगुणानां ग्रन्थः स विद्यते येषां ते त्रिगुणप्रन्थि-
नः परतत्त्वानज्ञाः तेषां यो दुर्भेदो भवोऽनिश्चितपरमशिवरूपविशेषः क्षेत्रज्ञो यस्तस्य
बन्ध: स्वरूपापरिज्ञानं तस्य विभेदी विनाशकरः यः क्षेत्रज्ञस्य परमशिवत्वं परमशिव
इति स एव नमस्य इत्यर्थः । इति प्राचीनाचार्याणां व्याख्या । वृत्त्यनुप्रासोऽलंकारः ॥
नमः समस्तगीर्वाणकिरीटघटितामये ।
जगन्नगरनिर्माणनर्मशर्मदकर्मणे ॥ ३ ॥
नमः समस्तेति । कस्मै । प्रस्तुताय श्रीशिवाय । किंभूताय । समस्ता ये गीर्वाणा दे-
वास्तेषां किरीटैर्मुकुटैर्घटितौ मिलितावनी यस्य तस्मै । तथा जगदेव नगरं तस्य नि-
Digitized by Google