This page has been fully proofread once and needs a second look.

२७४
 
काव्यमाला ।
 
कण्ठो वहन्नपि विषं विषमं तवैव
 

सद्यः श्रियं सृजति यद्वचसाश्रितेषु ।

स्वामिन्नतस्त्रिभुवनप्रथितप्रतिष्ठं
 

श्रीकण्ठ इत्युचितमेव तवाभिधानम् ॥ १४ ॥
 
लक्ष्मीं सृजति
 

 
हे स्वामिन्, विषमत्युत्कटं कालकूटाख्यं विषविशेषं वहन्त्रप्येष तव कण्ठो वचसा

कृपामृतरसार्द्रेण सद्यस्तत्क्षणमुत्थानानन्तरमेवाश्रितेष्वापन्नेषु विषये यस्मात्कारणाच्छ्रियं
लक्ष्मीं सृजति
दाति अत एव कारणात्रिजगत्यपि लब्धप्रतिष्ठं श्रीकण्ठ इति श्रीः शोभा

लक्ष्मीश्च कण्ठे यस्य स श्रीकण्ठ इति युक्तमेव तव नाम ॥

 
अन्तर्विमृश्य गरलेन गले सलील-

मालिङ्गितं विमलमाननमिन्दुमौलेः ।

हृष्यामि हन्त मुहुरम्बुरुह भ्रमाप्त-

रोलम्बडम्बरविडम्बनपण्डितेन ॥ १९ ॥
 

 
हन्त हर्षे । अहं मुहुः पुनः पुनर्हष्यामि प्रमोदं भजे । कुत इत्याह – अन्तर्मनसि वि-
भृ

मृ
श्य गरलेन कालकूटेनेन्दुमौलेः श्रीशंभोर्विमलं शुभ्रमाननं मुखं यद्गले कण्ठे गरलेन

विषेणालिङ्गितं गृहीतम् । किंभूतेन विषेण । अम्बुरुहभ्रमेण कमलभ्रान्त्या आप्ताः प्राप्ता

ये रोलम्बा भ्रमरास्तेषां यो डम्बर आटोपस्तस्य विडम्बने स्पर्धायां पण्डितेन कुशलेन ।

कमलसौरभागतभृङ्गपङ्क्ति
………….॥
 
यद्वद्विषं सदमृतं शिरसि प्रसिद्ध-
.........
 

मम्भस्तवेश विशदं सुमनः स्रवन्त्याः ।

मन्ये तथैव भगवन्भवतो गलस्थं
 

संपद्यतेऽमृतमिदं नतसान्त्वनेषु ॥ १६ ॥
 

 
हे ईश परमशिव । 'विषमप्सु च' इत्यमरः । 'विषं तु गरले तोये' इति विश्वः । सु-

मनःस्रवन्त्या गङ्गाया अम्भः वेवेष्टि कायं पानेनेति विषं जलं विषं सत् अथ च विषं

गरलं सत्तव विभोः शिरसि विशदं निर्मलममृतं जलमथ चामृतं पीयूषमिति यद्वत्प्र-

सिद्धं जगति जातम् । 'न म्रियतेऽनेनेत्यमृतम्' इति रायमुकुट्याम् । 'अप्सु घृतामृते'

इत्यमरः । 'अमृतं यज्ञशेषे स्यात्पीयूष गरले घृते । अयाचिते च मोक्षे चाथ धन्वन्तरि

देवयोः ॥' इति मेदिनी । अहं मन्ये हे भगवन्, भवतः स्वामिनो दयालोर्गलस्थमिदं विषं

कालकूटाख्यं नतानां भक्तिप्रहाह्वानां सान्त्वनेष्वाश्वासनेषु तवैवामृतं पीयूषं संपद्यते ।

रसवदलंकारोऽयम् । यथा भावोपहारस्तवे महामाहेश्वराचार्यचूडामणिश्रीमदुत्पलदेव-

विरचिते—'कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् । अप्युपात्तममृतं

भवद्वपुर्भेदवृत्ति यदि मे न रोचते ॥" इति ॥
 
Digitized by Google