This page has not been fully proofread.

२७४
 
काव्यमाला ।
 
कण्ठो वहन्नपि विषं विषमं तवैव
 
सद्यः श्रियं सृजति यद्वचसाश्रितेषु ।
स्वामिन्नतस्त्रिभुवनप्रथितप्रतिष्ठं
 
श्रीकण्ठ इत्युचितमेव तवाभिधानम् ॥ १४ ॥
 
लक्ष्मीं सृजति
 
हे स्वामिन्, विषमत्युत्कटं कालकूटाख्यं विषविशेषं वहन्त्रप्येष तव कण्ठो वचसा
कृपामृतरसार्द्रेण सद्यस्तत्क्षणमुत्थानानन्तरमेवाश्रितेष्वापन्नेषु विषये यस्मात्कारणाच्छ्रियं
दाति अत एव कारणात्रिजगत्यपि लब्धप्रतिष्ठं श्रीकण्ठ इति श्रीः शोभा
लक्ष्मीश्च कण्ठे यस्य स श्रीकण्ठ इति युक्तमेव तव नाम ॥
अन्तर्विमृश्य गरलेन गले सलील-
मालिङ्गितं विमलमाननमिन्दुमौलेः ।
हृष्यामि हन्त मुहुरम्बुरुह भ्रमाप्त-
रोलम्बडम्बरविडम्बनपण्डितेन ॥ १९ ॥
 
हन्त हर्षे । अहं मुहुः पुनः पुनर्हष्यामि प्रमोदं भजे । कुत इत्याह – अन्तर्मनसि वि-
भृश्य गरलेन कालकूटेनेन्दुमौलेः श्रीशंभोर्विमलं शुभ्रमाननं मुखं यद्गले कण्ठे गरलेन
विषेणालिङ्गितं गृहीतम् । किंभूतेन विषेण । अम्बुरुहभ्रमेण कमलभ्रान्त्या आप्ताः प्राप्ता
ये रोलम्बा भ्रमरास्तेषां यो डम्बर आटोपस्तस्य विडम्बने स्पर्धायां पण्डितेन कुशलेन ।
कमलसौरभागतभृङ्गपङ्क्ति
यद्वद्विषं सदमृतं शिरसि प्रसिद्ध-
.........
 
मम्भस्तवेश विशदं सुमनः स्रवन्त्याः ।
मन्ये तथैव भगवन्भवतो गलस्थं
 
संपद्यतेऽमृतमिदं नतसान्त्वनेषु ॥ १६ ॥
 
हे ईश परमशिव । 'विषमप्सु च' इत्यमरः । 'विषं तु गरले तोये' इति विश्वः । सु-
मनःस्रवन्त्या गङ्गाया अम्भः वेवेष्टि कायं पानेनेति विषं जलं विषं सत् अथ च विषं
गरलं सत्तव विभोः शिरसि विशदं निर्मलममृतं जलमथ चामृतं पीयूषमिति यद्वप्र-
सिद्धं जगति जातम् । 'न म्रियतेऽनेनेत्यमृतम्' इति रायमुकुट्याम् । 'अप्सु घृतामृते'
इत्यमरः । 'अमृतं यज्ञशेषे स्यात्पीयूष गरले घृते । अयाचिते च मोक्षे चाथ धन्वन्तरि
देवयोः ॥' इति मेदिनी । अहं मन्ये हे भगवन्, भवतः स्वामिनो दयालोर्गलस्थमिदं विषं
कालकूटाख्यं नतानां भक्तिप्रहानां सान्त्वनेष्वाश्वासनेषु तवैवामृतं पीयूषं संपद्यते ।
रसवदलंकारोऽयम् । यथा भावोपहारस्तवे महामाहेश्वराचार्यचूडामणिश्रीमदुत्पलदेव-
विरचिते—'कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् । अप्युपात्तममृतं
भवद्वपुर्भेदवृत्ति यदि मे न रोचते ॥" इति ॥
 
Digitized by Google