This page has been fully proofread once and needs a second look.

१९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२७३
 
हे देव परमेश, अव्याहतोऽव्युच्छिन्नो यो ग्रहो हेवाकस्तस्य वशेनाहिता धृता यो-

गस्याष्टाङ्गस्य सिद्धिर्यया सा तादृशी । मध्ये मालाया मध्ये स्थितिर्यस्य स तादृशस्य ह-

स्तस्य करस्य त्वदीयस्योभयपार्श्वे उभे पार्श्वे गता । तथा मेरोर्मध्यस्थरुद्राक्षफलस्य प

रिमर्श: स्पर्शस्तेन विनाकृता रहिता । 'मेरुं नैव तु लङ्घयेत्' इति तन्त्रोक्तेः । तवाक्ष-

माला रुद्राक्षमाला चकास्ति राजते । 'श्रियेऽस्तु' इति च पाठो दृश्यते । अकारादि-

क्षकारान्तवर्णानां पञ्चाशतां शिवशक्तिमयत्वेन द्विगुणितानां भवादिमूर्त्यष्टकेन सहिताना-

मष्टोत्तरमालाक्षमालेति । तन्त्रराजे - 'अकारादिक्षकारान्तवर्णाः पञ्चाशतिः प्रिये ।

शिवशक्तिस्वरूपेण द्विगुणाः साष्टमूर्तिकाः ॥ अष्टोत्तरशतं तेषामक्षमाला प्रकीर्तिता ॥'

इति । नक्षत्रपक्लिङ्क्तिरिव । किंभूता । मध्यस्थितेर्नक्षत्रमध्यस्थितस्य हस्तस्य सवितृदैवतस्य

हस्तर्क्षस्योभयपार्श्वगता । तथा मेरोर्देवगिरेः परिमर्शेन स्पर्शेन विनाकृता रहिता । त

दन्तेऽन्तरिक्ष एव तद्गतेः । पुनः किंभूता । अव्याहता ये ग्रहाः सूर्यादयस्तेषां वशेना-

हिता योगानां विष्कम्भादीनामानन्दादीनां वा सिद्धिर्यया सा ॥

 
त्वं कालभैरववपुर्ज्वलितानलाश्रि

लोलाङ्गुलीवलनमण्डलितं दधानः ।

संहाररात्रिषु निनर्तिषुरीश शूलं
 

बालार्कचुम्बितनवाम्बुदभङ्गिमेषि ॥ १२ ॥
 

 
ज्वलितानला अश्रयो धारा यस्य तत्तादृशम् । तथा लोला या अङ्गुल्यस्ताभिर्वल-

नेन भ्रामणेन मण्डलितं मण्डलाकारं भ्रामितं शूलं त्रिशूलं दधानः संहाररात्रिषु महाप्र-

लययामिनीषु निनर्तिपुषुर्नाव्ट्यं विधित्सुः शूलं निनर्तिषुश्च त्वं कालभैरवः कालाग्निरुद्र-

मूर्तिः । तथा कालं कृष्णं भैरवं भयानकं च वपुर्यस्य स तादृशः । बालार्केण चुम्बितो

मिलितो यो नवाम्बुदः कृष्णमेघस्तद्भङ्गिं तद्विच्छित्तिमेषि प्राप्नोषि । त्रिशूलस्य भ्रामि-

तस्य बालार्क उपमानं कालभैरवस्य कृष्णाम्बुद उपमानम् ॥
 

 
शाणोपलोत्कषणशुद्धनवेन्द्रनील-

नीलद्युतिर्जयति ते शितिकण्ठ कण्ठः ।

यस्मिन्घनाञ्जनरुचिँचिर्भुजगः कलिन्द-
कन्याह

कन्याह्र
दान्तरितकालियभङ्गिमेति ॥ १३ ॥
 

 
शितिर्नीलः कालकूटाख्यविषविशेषनिगरणात्कण्ठो यस्य तस्य संबोधनं हे शितिकण्ठ,

शाणोपलेन निकषोपलेन यदुत्कषणं तेन शुद्धं यदिन्द्रनीलं तस्येव नीला द्युतिर्यस्य स

तादृशस्ते तव कण्ठो जयति सर्वोत्कृष्टो भवति । स क इत्याह – यस्मिन्निति । घनं च

तदञ्जनं कृष्णाञ्जनं तद्वद्रुचिर्यस्य स तादृग्भुजगो नागो वासुकिर्यस्मिन्गले कलिन्दक-

न्याया यमुनाया ह्रदेऽन्तरितोऽन्तर्गतो यः कालियो नागस्तस्य कान्तिमेति लभते ॥
 
Digitized by Google