This page has not been fully proofread.

१९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२७३
 
हे देव परमेश, अव्याहतोऽव्युच्छिन्नो यो ग्रहो हेवाकस्तस्य वशेनाहिता धृता यो-
गस्याष्टाङ्गस्य सिद्धिर्यया सा तादृशी । मध्ये मालाया मध्ये स्थितिर्यस्य स तादृशस्य ह-
स्तस्य करस्य त्वदीयस्योभयपार्श्वे उभे पार्श्वे गता । तथा मेरोर्मध्यस्थरुद्राक्षफलस्य प
रिमर्श: स्पर्शस्तेन विनाकृता रहिता । 'मेरुं नैव तु लङ्घयेत्' इति तन्त्रोक्तेः । तवाक्ष-
माला रुद्राक्षमाला चकास्ति राजते । 'श्रियेऽस्तु' इति च पाठो दृश्यते । अकारादि-
क्षकारान्तवर्णानां पञ्चाशतां शिवशक्तिमयत्वेन द्विगुणितानां भवादिमूर्त्यष्टकेन सहिताना-
मष्टोत्तरमालाक्षमालेति । तन्त्रराजे - 'अकारादिक्षकारान्तवर्णाः पञ्चाशतिः प्रिये ।
शिवशक्तिस्वरूपेण द्विगुणाः साष्टमूर्तिकाः ॥ अष्टोत्तरशतं तेषामक्षमाला प्रकीर्तिता ॥'
इति । नक्षत्रपक्लिरिव । किंभूता । मध्यस्थितेर्नक्षत्रमध्यस्थितस्य हस्तस्य सवितृदैवतस्य
हस्तर्क्षस्योभयपार्श्वगता । तथा मेरोर्देवगिरेः परिमर्शेन स्पर्शेन विनाकृता रहिता । त
दन्तेऽन्तरिक्ष एव तद्गतेः । पुनः किंभूता । अव्याहता ये ग्रहाः सूर्यादयस्तेषां वशेना-
हिता योगानां विष्कम्भादीनामानन्दादीनां वा सिद्धिर्यया सा ॥
त्वं कालभैरववपुर्ज्वलितानलाश्रि
लोलाङ्गुलीवलनमण्डलितं दधानः ।
संहाररात्रिषु निनर्तिषुरीश शूलं
 
बालार्कचुम्बितनवाम्बुदभङ्गिमेषि ॥ १२ ॥
 
ज्वलितानला अश्रयो धारा यस्य तत्तादृशम् । तथा लोला या अङ्गुल्यस्ताभिर्वल-
नेन भ्रामणेन मण्डलितं मण्डलाकारं भ्रामितं शूलं त्रिशूलं दधानः संहाररात्रिषु महाप्र-
लययामिनीषु निनर्तिपुर्नाव्यं विधित्सुः शूलं निनर्तिषुश्च त्वं कालभैरवः कालाग्निरुद्र-
मूर्तिः । तथा कालं कृष्णं भैरवं भयानकं च वपुर्यस्य स तादृशः । बालार्केण चुम्बितो
मिलितो यो नवाम्बुदः कृष्णमेघस्तद्भङ्गिं तद्विच्छित्तिमेषि प्राप्नोषि । त्रिशूलस्य भ्रामि-
तस्य बालार्क उपमानं कालभैरवस्य कृष्णाम्बुद उपमानम् ॥
 
शाणोपलोत्कषणशुद्धनवेन्द्रनील-
नीलद्युतिर्जयति ते शितिकण्ठ कण्ठः ।
यस्मिन्घनाञ्जनरुचिँर्भुजगः कलिन्द-
कन्याहदान्तरितकालियभङ्गिमेति ॥ १३ ॥
 
शितिर्नीलः कालकूटाख्यविषविशेषनिगरणात्कण्ठो यस्य तस्य संबोधनं हे शितिकण्ठ,
शाणोपलेन निकषोपलेन यदुत्कषणं तेन शुद्धं यदिन्द्रनीलं तस्येव नीला द्युतिर्यस्य स
तादृशस्ते तव कण्ठो जयति सर्वोत्कृष्टो भवति । स क इत्याह – यस्मिन्निति । घनं च
तदञ्जनं कृष्णाअनं तद्वद्रुचिर्यस्य स तादृग्भुजगो नागो वासुकिर्यस्मिन्गले कलिन्दक-
न्याया यमुनाया ह्रदेऽन्तरितोऽन्तर्गतो यः कालियो नागस्तस्य कान्तिमेति लभते ॥
 
Digitized by Google