This page has been fully proofread once and needs a second look.

२७२
 
काव्यमाला ।
 
यत्रैति नाभिकुहरं जगदादिसर्ग-

निर्यज्जनौघनवनिर्गममार्गभङ्गिम्
 
॥ ८ ॥
 

 
युगान्तसमये कल्पान्तकाले उषिता अन्तःस्थिताः भूर्लोकायाः सप्तलोका यस्मि
मिं-
स्तत्तादृशं लोकोत्तरं दिव्यमीश्वरभैरवस्य ईश्वरश्वाचासौ भैरवस्तस्य श्रीशंभोर्जठरं तदुदरं

वन्दे प्रणौमि । तत्किमित्याह – यस्मिञ्शंभुजठरे नाभिकुहरं नामिरन्ध्र जगतो भूर्लो-

कादिजगतो यः सर्गस्तत्र निर्यच्चासौ जनौघस्तस्य नवो निर्गमनार्थेथं मार्गस्तस्य विच्छि-

त्
तिमेति । यदा स्वतन्त्रो विभुर्निजेच्छया विश्वस्य निर्माणं विधत्ते तदीयनाभिविवरा-

त्सप्तभुवनानि निर्यान्तीत्याशयः ।

 
सिन्दूरितामरमतङ्गजकुम्भशोभि

संध्याभिताम्रशरदम्बुधरानुकारि ।
 

वन्दे फणीन्द्रफणरत्नरुचारुणाभं

भस्मौघभास्वरमुरः [^१]पुरशासनस्य ॥ ९ ॥
 

 
भस्मौघेन भासुरो धवलवाश्चायम् । तथा फणीन्द्राणामर्थात् हारीकृतानां वासुकिप्रभृ

तीनां ये फणास्तेषु यानि रत्नानि तेषां रुचारुणाभं पुरशासनस्य त्रिपुरारे: श्रीशिवस्योरः-

स्थलं वन्दे । किंभूतम् । सिन्दूरितः सिन्दूरेण शृङ्गारितो योऽमरमतङ्गजस्यैरावणस्य स्वतो

धवलवर्णस्य धवलवर्णो यः कुम्भस्तद्वच्छोभत इति सिन्दूरितामरमतङ्गजकुम्भशोभि ।

पुनः किंभूतम् । संध्यया प्राक्संध्ययाभिताम्रो यः शरदम्बुधरस्तमनुकरोतीति तादृक् ॥

 
स्वामिन्नमी तव भुजा भुजगाधिराज-

भोगोपगूढवपुषो हृदयं मदीयम् ।

आनन्दयन्ति बत भीमभवोपताप-

निर्वापणेन विटपा इव चन्दनस्य ॥ १० ॥
 

 
हे स्वामिञ्जगदीश, भजगाधिराजानां वासुकिप्रभृतीनां भोगैः कायैरुपगूढं वपुर्यस्य

स तादृशस्य तवामी भुजा मदीयं हृदयमानन्दयन्ति । भीमश्वाचासौ भवोपतापो जन्मा-

द्
युपतापस्तस्य निर्वाणं शमनं तेन । संसारसंतापनिवारणेनेत्यर्थः । भुजाः क इव । च-

न्दनद्रुमस्य विटपा इव । चन्दनस्यापि किंभूतस्य । फणीन्द्रभोगोपगूढवपुषः । भुजगेत्या-

दिविटपविशेषणं वा । तेऽपि संतापनिवारणेन हृदयमानन्दयन्ति ॥

 
मध्यस्थितेरुभयपार्श्वगता चकास्ति

हस्तस्य मेरुपरिमर्शविनाकृतेयम् ।

अव्याहतग्रहवशाहितयोगसिद्धि-

र्
नक्षत्रपङ्किक्तिरिव देव तवाक्षमाला ॥ ११ ॥
 

 
[^
]. 'स्मरशासनस्य' ख.
 
Digitized by Google