This page has not been fully proofread.

२७२
 
काव्यमाला ।
 
यत्रैति नाभिकुहरं जगदादिसर्ग-
निर्यज्जनौघनवनिर्गममार्गभङ्गिम्
 
॥ ८ ॥
 
युगान्तसमये कल्पान्तकाले उषिता अन्तःस्थिताः भूर्लोकायाः सप्तलोका यस्मि
स्तत्तादृशं लोकोत्तरं दिव्यमीश्वरभैरवस्य ईश्वरश्वासौ भैरवस्तस्य श्रीशंभोर्जठरं तदुदरं
वन्दे प्रणौमि । तत्किमित्याह – यस्मिशंभुजठरे नाभिकुहरं नामिरन्ध्र जगतो भूर्लो-
कादिजगतो यः सर्गस्तत्र निर्यच्चासौ जनौघस्तस्य नवो निर्गमनार्थे मार्गस्तस्य विच्छि-
तिमेति । यदा स्वतन्त्रो विभुर्निजेच्छया विश्वस्य निर्माणं विधत्ते तदीयनाभिविवरा-
त्सप्तभुवनानि निर्यान्तीत्याशयः ।
सिन्दूरितामरमतङ्गजकुम्भशोभि
संध्याभिताम्रशरदम्बुधरानुकारि ।
 
वन्दे फणीन्द्रफणरत्नरुचारुणाभं
भस्मौघभास्वरमुरः पुरशासनस्य ॥ ९ ॥
 
भस्मौघेन भासुरो धवलवायम् । तथा फणीन्द्राणामर्थात् हारीकृतानां वासुकिप्रभृ
तीनां ये फणास्तेषु यानि रत्नानि तेषां रुचारुणाभं पुरशासनस्य त्रिपुरारे: श्रीशिवस्योरः-
स्थलं वन्दे । किंभूतम् । सिन्दूरितः सिन्दूरेण शृङ्गारितो योऽमरमतङ्गजस्यैरावणस्य स्वतो
धवलवर्णस्य धवलवर्णो यः कुम्भस्तद्वच्छोभत इति सिन्दूरितामरमतङ्गजकुम्भशोभि ।
पुनः किंभूतम् । संध्यया प्राक्संध्ययाभिताम्रो यः शरदम्बुधरस्तमनुकरोतीति तादृक् ॥
स्वामिन्नमी तव भुजा भुजगाधिराज-
भोगोपगूढवपुषो हृदयं मदीयम् ।
आनन्दयन्ति बत भीमभवोपताप-
निर्वापणेन विटपा इव चन्दनस्य ॥ १० ॥
 
हे स्वामिअगदीश, भजगाधिराजानां वासुकिप्रभृतीनां भोगैः कायैरुपगूढं वपुर्यस्य
स तादृशस्य तवामी भुजा मदीयं हृदयमानन्दयन्ति । भीमश्वासौ भवोपतापो जन्मा-
युपतापस्तस्य निर्वाणं शमनं तेन । संसारसंतापनिवारणेनेत्यर्थः । भुजाः क इव । च-
न्दनद्रुमस्य विटपा इव । चन्दनस्यापि किंभूतस्य । फणीन्द्रभोगोपगूढवपुषः । भुजगेत्या-
दिविटपविशेषणं वा । तेऽपि संतापनिवारणेन हृदयमानन्दयन्ति ॥
मध्यस्थितेरुभयपार्श्वगता चकास्ति
हस्तस्य मेरुपरिमर्शविनाकृतेयम् ।
अव्याहतग्रहवशाहितयोगसिद्धि-
नक्षत्रपङ्किरिव देव तवाक्षमाला ॥ ११ ॥
 
१. 'स्मरशासनस्य' ख.
 
Digitized by Google