This page has been fully proofread once and needs a second look.

१९ स्तोत्रम् ] .
 
स्तुतिकुसुमाञ्जलिः ।
 
नीहारशीकरपरिष्कृतपत्रपति
 
ङ्क्ति
पङ्के
रुहद्वितयकान्ति भजन्ति धन्याः ॥ ९ ॥
 

 
हे भव श्रीशंभो, प्रणतीनां प्रकर्षः पुनः पुनर्दण्डवत्प्रणामानां प्रकर्षस्तेन यो हर्षः पर-

मानन्दस्तेन य उद्भूतोऽश्रुबिन्दुप्रवाहस्तेन दन्तुरिता विचित्रीकृता अङ्गुलयो यस्य त

त्तादृशं तवान्त्ङ्घ्रिद्वयं धन्याः सुकृतिनो भजन्ति सेवन्ते । किंभूतम् । नीहारकणैरवश्याय-

कणैर्भूषितपद्मयुग्मसदृशम् ॥
 

 
भस्मोज्ज्वलं त्रिदशशेखर पद्मराग-

दीप्रप्रभारुणितमङ्घ्रिसरोजयुग्मम् ।

वन्दामहे घुसृणरेणुपरागगर्भ-
२७१
 

कर्पूरपांसुभिरिव च्छुरितं स्मरारेः ॥ ६ ॥
 

 
भस्मना भूत्योज्ज्वलं धवलम् । 'उज्ज्वलो दीप्तशृङ्गारविशदेषु विकासिनि' इति

विश्वः । तथा त्रिदशानां ब्रह्मादीनां शेखरेषु मुकुटेषु ये पद्मरागा मणिविशेषास्तेषां या

दीप्राः प्रभास्ताभिररुणितमारक्तीकृतं स्मरारे: श्रीशंभोः पादद्वयं वयं वन्दामहे । की-

दृशमिव । घुसृणरेणूनां कुङ्कुमकेसराणां यः परागो धूलिः स गर्भे येषां तादृशा ये कर्पूर-

पांसवस्तै श्छुरितं व्याप्तमिव । 'देवताः पादतो वर्ण्या मनुष्या मुखतस्तथा' इति कवि-

शिक्षायां कविसंप्रदायः ॥
 

 
जङ्घ्यालतायुगलमाश्रितगुल्फमूल-

भोगीन्द्रभोगसुभगाभिनवालवालम् ।

शंभोरमीभीष्टफलदं भवतापतान्ति-

शान्तिक्षमं शमयितुं विपदं श्रयामि ॥ ७ ॥
 

 

 
अहं श्रीशंभोर्जङ्घालतायुगलम् । अत्र लता औचित्यात्कल्पलता बाह्या । अत एव

विपदं शमयितुमिति चोक्तम् । जङ्घाकल्पलतायुग्मं विपदं भवार्तिरूपां शमयितुं श्र-

यामि । किंभूतम् । आश्रितं गुल्फयोः पादप्ग्रन्थ्योर्मूलं यैस्ते तादृशा ये भोगीन्द्राः फणी-

न्द्रास्तेषां भोगाः फणा एव सुभगं रम्यं नवमालवालं यस्य तत् । लतायुग्मस्य च मूले

आलवालेन भाव्यम् । तथा किंभूतं जाजङ्घाकल्पलतोतांयुगलम् । अभीष्टफलदम् । तथा भवे

संसारे यस्तापस्त्रिविध आध्यात्मिकादिः स एव तापः संतापस्तेन या तान्तिः क्लान्ति-

स्तस्याः शान्तौ क्षमम् ॥
 

 
वन्दे युगान्तसमयोषितसप्तलोकं

लोकोत्तरं जठरमीश्वरभैरवस्य ।
 
Digitized by Google