This page has not been fully proofread.

१९ स्तोत्रम् ] .
 
स्तुतिकुसुमाञ्जलिः ।
 
नीहारशीकरपरिष्कृतपत्रपति
 
रुहद्वतयकान्ति भजन्ति धन्याः ॥ ९ ॥
 
हे भव श्रीशंभो, प्रणतीनां प्रकर्षः पुनः पुनर्दण्डवत्प्रणामानां प्रकर्षस्तेन यो हर्षः पर-
मानन्दस्तेन य उद्भूतोऽश्रुबिन्दुप्रवाहस्तेन दन्तुरिता विचित्रीकृता अङ्गुलयो यस्य त
त्तादृशं तवान्त्रिद्वयं धन्याः सुकृतिनो भजन्ति सेवन्ते । किंभूतम् । नीहारकणैरवश्याय-
कणैर्भूषितपद्मयुग्मसदृशम् ॥
 
भस्मोज्ज्वलं त्रिदशशेखर पद्मराग-
दीप्रप्रभारुणितमङ्घ्रिसरोजयुग्मम् ।
वन्दामहे घुसृणरेणुपरागगर्भ-
२७१
 
कर्पूरपांसुभिरिव च्छुरितं स्मरारेः ॥ ६ ॥
 
भस्मना भूत्योज्ज्वलं धवलम् । 'उज्ज्वलो दीप्तशृङ्गारविशदेषु विकासिनि' इति
विश्वः । तथा त्रिदशानां ब्रह्मादीनां शेखरेषु मुकुटेषु ये पद्मरागा मणिविशेषास्तेषां या
दीप्राः प्रभास्ताभिररुणितमारक्तीकृतं स्मरारे: श्रीशंभोः पादद्वयं वयं वन्दामहे । की-
दृशमिव । घुसृणरेणूनां कुङ्कुमकेसराणां यः परागो धूलिः स गर्भे येषां तादृशा ये कर्पूर-
पांसवस्तै छुरितं व्याप्तमिव । 'देवताः पादतो वर्ण्या मनुष्या मुखतस्तथा' इति कवि-
शिक्षायां कविसंप्रदायः ॥
 
जङ्घयालतायुगलमाश्रितगुल्फमूल-
भोगीन्द्रभोगसुभगाभिनवालवालम् ।
शंभोरमीष्टफलदं भवतापतान्ति-
शान्तिक्षमं शमयितुं विपदं श्रयामि ॥ ७ ॥
 

 
अहं श्रीशंभोर्जङ्घालतायुगलम् । अत्र लता औचित्यात्कल्पलता बाह्या । अत एव
विपदं शमयितुमिति चोक्तम् । जङ्घाकल्पलतायुग्मं विपदं भवार्तिरूपां शमयितुं श्र-
यामि । किंभूतम् । आश्रितं गुल्फयोः पादप्रन्थ्योर्मूलं यैस्ते तादृशा ये भोगीन्द्राः फणी-
न्द्रास्तेषां भोगाः फणा एव सुभगं रम्यं नवमालवालं यस्य तत् । लतायुग्मस्य च मूले
आलवालेन भाव्यम् । तथा किंभूतं जाकल्पलतोयुगलम् । अभीष्टफलदम् । तथा भवे
संसारे यस्तापस्त्रिविध आध्यात्मिकादिः स एव तापः संतापस्तेन या तान्तिः क्लान्ति-
स्तस्याः शान्तौ क्षमम् ॥
 
वन्दे युगान्तसमयोषितसप्तलोकं
लोकोत्तरं जठरमीश्वरभैरवस्य ।
 
Digitized by Google