This page has been fully proofread once and needs a second look.

२७०
 
काव्यमाला ।
 
यत्किंचिदेव तु विकल्पविकल्प्यमान-

मानन्दघाधाम तदपीह [^१]भवार्तिभाजाम् ॥ २ ॥
 

 
हे महेश, परं रूपं त्वदीयमास्तां तिष्ठतु । भावत्कं रूपं लोकोत्तरमवाङ्मनसगोचरं न

तावदस्माभिर्वर्णयितुं शक्यमित्यर्थः । हे महेश, यत्तु तव रूपं अपरं न परं तदपि त्व-

दीयं दिव्यं वपुर्दिव्यचक्षुषां विमर्शयोग्यं न भवति । अस्मादृशां तु चर्मचक्षुषां कैव क-

थेत्यर्थः । तु पक्षान्तरे । यत्किंचिद्विकल्पैर्बुद्धिविकल्पैर्विचार्यमाणं बालेन्दुकलाघरत्रिनेत्र-

जटामुकुटमण्डितत्वादिविकल्पितं तदपीह जगति भवे संसारे आर्तिभाजामानन्दधाम ।

 
मूर्तिर्ध्रुवं तव [^२]शिवामृतवर्तिरेना-

मासाद्य यत्कतिचिदश्रुलवाः पतन्ति ।

नश्यत्यघौघपटलं तिमिरं व्यपैति
 

रागः प्रशाम्यति दृशः प्रथते प्रसादः ॥ ३ ॥
 

 
हे शिव, कैवल्यदायिन्, ध्रुवं निश्चयेन तव मूर्तिरमृतवर्ती रसायनवर्तिः । सुधागुलि-

कास्तीत्यर्थः । यद्यस्मात्कारणादेनां भवन्मूर्तिवर्तिमासाद्य शिवैकताध्यायिनो भक्तजनस्य

कतिचिदश्रुकणाः प्रमोदाश्रुकणा यत्पतन्ति तथाघौघस्य पटलं समूहो नश्यति । तिमिरं

मोहान्धकारो व्यपैति दूरे गच्छति । तथा रागो विषयेष्वासक्तिः प्रशाम्यति । तथा दृशो

ज्ञानस्य प्रसादोऽनुग्रहः प्रथते प्रकटीभवति । अथ च स्वच्छरसगुलिकयापि कतिचित्क-

लुषदुष्टाश्रुलवाः पतन्ति । तथा पटलमप्यायुर्वेदप्रथितो नेत्ररोगविशेषोऽपि नश्यति ।

तथा तिमिरमपि नेत्ररोगविशेषो नश्यति । रागो नेत्रयो रक्तता च दूरीभवति । दृ-

शश्चक्षुषः प्रसादो नैर्मल्यं भवति । अत्र शब्दशक्तिमूलोत्प्रेक्षा ॥

 
सत्यं महार्गुणरत्ननिधानमेत
 

दालम्बनं तव वपुर्विपदर्दितानाम् ।

नो चेन्नखांशुभरकेसरितं किमत्र
 

पादाभिधं युगपदुद्गतमब्जयुम्मम् ॥ ४ ॥
 

 
सत्यं निश्चितम् हे विभो, विपदर्दितानां विपदा भवार्त्यार्दितानां पीडितानामालम्ब-

नमाधारस्तव वपुर्महार्घा बहुमूल्या ये गुणाः सार्वज्ञपारमैश्वर्यस्वातन्त्र्यासुरविजयत्वाद-

यस्त एव रत्नानि, तेषां निधानं निधिभूतमेतत्तव वपुः सत्यमस्ति न चेदेतन्नखांशुसमूह-

केसरितं किंजल्कयुक्तं तव पादयुग्मनामकमब्जयुग्ममत्र किमुत्पन्नम् । अब्जद्वयसां-

निध्ये निघानमनुमीयत इत्याशयः । अनुमानालंकारः ॥

 
पादद्वयं तव भव प्रणतिप्रकर्ष-

हर्षाश्रुबिन्दुभरदन्तुरिताङ्गुलीकम् ।
 

 
[^
]. 'भवार्दितानाम्' क.
[^
]. 'अमृतमूर्ति:' ख.
 
Digitized by Google
 
·