This page has not been fully proofread.

२७०
 
काव्यमाला ।
 
यत्किंचिदेव तु विकल्पविकल्प्यमान-
मानन्दघाम तदपीह भवार्तिभाजाम् ॥ २ ॥
 
हे महेश, परं रूपं त्वदीयमास्तां तिष्ठतु । भावत्कं रूपं लोकोत्तरमवासगोचरं न
तावदस्माभिर्वर्णयितुं शक्यमित्यर्थः । हे महेश, यत्तु तव रूपं अपरं न परं तदपि त्व-
दीयं दिव्यं वपुर्दिव्यचक्षुषां विमर्शयोग्यं न भवति । अस्मादृशां तु चर्मचक्षुषां कैव क-
थेत्यर्थः । तु पक्षान्तरे । यत्किंचिद्विकल्पैर्बुद्धिविकल्पैर्विचार्यमाणं बालेन्दुकलाघरत्रिनेत्र-
जटामुकुटमण्डितत्वादिविकल्पितं तदपीह जगति भवे संसारे आर्तिभाजामानन्दधाम ।
मूर्तिर्ध्रुवं तव शिवामृतवर्तिरेना-
मासाद्य यत्कतिचिदश्रुलवाः पतन्ति ।
नश्यत्यघौघपटलं तिमिरं व्यपैति
 
रागः प्रशाम्यति दृशः प्रथते प्रसादः ॥ ३ ॥
 
हे शिव, कैवल्यदायिन्, ध्रुवं निश्चयेन तव मूर्तिरमृतवर्ती रसायनवर्तिः । सुधागुलि-
कास्तीत्यर्थः । यद्यस्मात्कारणादेनां भवन्मूर्तिवर्तिमासाद्य शिवैकताध्यायिनो भक्तजनस्य
कतिचिदश्रुकणाः प्रमोदाश्रुकणा यत्पतन्ति तथाघौघस्य पटलं समूहो नश्यति । तिमिरं
मोहान्धकारो व्यपैति दूरे गच्छति । तथा रागो विषयेष्वासक्तिः प्रशाम्यति । तथा दृशो
ज्ञानस्य प्रसादोऽनुग्रहः प्रथते प्रकटीभवति । अथ च स्वच्छरसगुलिकयापि कतिचित्क-
लुषदुष्टाश्रुलवाः पतन्ति । तथा पटलमप्यायुर्वेदप्रथितो नेत्ररोगविशेषोऽपि नश्यति ।
तथा तिमिरमपि नेत्ररोगविशेषो नश्यति । रागो नेत्रयो रक्तता च दूरीभवति । दृ-
शश्चक्षुषः प्रसादो नैर्मल्यं भवति । अत्र शब्दशक्तिमूलोत्प्रेक्षा ॥
सत्यं महार्षगुणरत्ननिधानमेत
 
दालम्बनं तव वपुर्विपदर्दितानाम् ।
नो चेन्नखांशुभरकेसरितं किमत्र
 
पादाभिधं युगपदुद्गतमजयुम्मम् ॥ ४ ॥
 
सत्यं निश्चितम् हे विभो, विपदर्दितानां विपदा भवार्त्यार्दितानां पीडितानामालम्ब-
नमाधारस्तव वपुर्महार्घा बहुमूल्या ये गुणाः सार्वज्ञपारमैश्वर्यस्वातन्त्र्यासुरविजयत्वाद-
यस्त एव रत्नानि, तेषां निधानं निधिभूतमेतत्तव वपुः सत्यमस्ति न चेतनखांशुसमूह-
केसरितं किंजल्कयुक्तं तव पादयुग्मनामकमब्जयुग्ममत्र किमुत्पन्नम् । अब्जद्वयसां-
निध्ये निघानमनुमीयत इत्याशयः । अनुमानालंकारः ॥
पादद्वयं तव भव प्रणतिप्रकर्ष-
हर्षाश्रुबिन्दुभरदन्तुरिताङ्गुलीकम् ।
 
१. 'भवार्दितानाम्' क. २. 'अमृतमूर्ति:' ख.
 
Digitized by Google
 
·