This page has not been fully proofread.

१९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
अराणि करुणं मुहुर्मुहुरकारि चाटु प्रभो -
रभावि भवभावनामुदितचेतसान्तर्मुहुः ।
अलोठि मुकुटं मुहुश्चरणपीठिकाविष्टरे
 
किमन्यदखिलं जितं करतले कृताः सिद्धयः ॥ २५ ॥
 
मया वराकेण मुहुर्मुहुस्तव प्रभोः पुरः करुणं दीनमराणि अकथि । तथा मया मुहु-
र्मुहुः प्रभोर्जगदीशस्य चाटु चाटुवचनमकारि । तथा मया भवत्यस्मात्सर्वे शिवादि
क्षित्यन्तं विश्वमिति भवः । तस्मिन्या भावना शिवैकताध्यानं तेन मुदितं चेतो यस्य
स तेन मुहुरभावि संपनम् । तथा चरणपीठिकाविष्टरे श्रीशंभुचरणपीठिकासने मया मु-
कुटं स्वकीयमलोठि लोठितं मृदितम् । किमन्यदाशासे । एतदभीष्टावश्यविधेयविधा-
नातू । मयाखिलं विश्वं जितम् । अस्माभिर्निजकरतले समस्ताः सिद्धयः कृता
इति शिवम् ॥
 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धरमविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाअलौ
सिद्धिस्तोत्रमष्टादशम् ।
 
एकोनविंशं स्तोत्रम् ।
 
-
 
अथातः श्रीभगवद्वर्णनं नामैकोनविंशं स्तोत्रमारभमाण आह-
यत्ते परं वरद रूपमतीतमेव
 
मार्ग गिरां तदिह कः क्षमते गृणातुम् ।
अग्राहि यत्तु नतलोकमनुग्रहीतुं
 
बालेन्दुलक्ष्म भवता तदिदं गृणामि ॥ १ ॥
 
२६९
 
हे वरद, यत्ते स्वामिनः परं रूपं परादपि परतरं निष्कलारूयमल्लक्षणार्थम् । मनसो-
ऽप्यतीतमित्यर्थः । 'अवाङ्मनसगोचरम्' इति स्मृतेः । तत्ते रूपमिह जगति को गृणातुं
स्तोतुं क्षमते । 'गृ स्तुतौ' धातुः । ब्रह्मादिभिरपि तन्महिम्नोऽदृष्टपारत्वात्तत्स्तोतुं न श
क्यत इत्यर्थः । हे दयालो, यत्तु भवता स्वामिना नतलोकं प्रहजनमनुग्रहीतुं रूपं बाले-
न्दुलक्ष्म चन्द्रलाञ्छनम् । एतदप्युपलक्षणार्थम् । त्रिनेत्रं मुकुटमण्डितमित्यादि स
कलं रूपं गृहीतं तदेवेदानीं लेशेन गृणामि ॥
 
आस्तां परं यदपरं तदपि त्वदीयं
दिव्यं वपुर्नहि महेश विमर्शयोग्यम् ।
 
१. 'गरीतुं' ख.
 
Digitized by Google