This page has been fully proofread once and needs a second look.

२६८
 
काव्यमाला ।
 
महामन्त्रैः किं वा भवति । तथा औषधसंग्रहैरौषधानां विशल्याद्योषघिविशेषाणां ये सं
प्

ग्
रहाः समुदायास्तैश्च किं भवति । परैर्मेषजैरगदैः पथ्यैरपि किं वा कार्यं भवति । प्रायो

निश्चये । अमृतमपि रसायनमपि जन्मजरामरणत्रासकारणेन य उपतापस्तस्य शमस्तत्र

क्षमं न भवति । तस्मात्करुणापरं दयानिधिधिं तं प्रसिद्धमेकं हरं शरणं व्रजत गच्छत यू-

यम् । स एव केवलं मोक्षदायीत्यर्थः ॥
 

 
इह हि गिरिषु प्रालेयाद्रिर्महःसु विभावसु-

र्
गुरुषु जननी मन्त्रेष्वेकाक्षरं परमं पदम् ।

सखिषु सुकृतं वैरिष्वंहो नदीषु नभोनदी
 
हि निश्चये
 

प्रभुषु च परः स्वामी देवः शशाङ्कशिखामणिः[^१] ॥ २३ ॥

 
हि निश्चये
प्रसिद्धौ वा । गिरिषु निषधविन्ध्यादिषु मध्ये प्रालेयाद्रिर्हिमाचल: पर

उत्कृष्टो भवति । कुत्र । इह भूर्लोके । तथा महःसु तेजःसु मध्ये विभावसुः विभा दोदीप्ति-

र्वसु धनमस्य विभावसुः सूर्यः परो भवति । तथा गुरुष्वाचार्येषु मध्ये जननी माता प

रावति । 'पतिता गुरवस्त्याज्या न तु माता कदाचन । गर्भधारणपोषाभ्यां तेन माता

गरीयसी ॥' इति स्मृतेः । तथा मन्त्रेषु मननधर्मेषु मध्ये एकं च तदक्षरं न क्षरति स्व-

रूपात्प्रचलतीत्यक्षरं परमुत्कृष्टं पदम् । अकारोकारमकारात्मकं प्रणवाख्यं परमुत्कृष्टं भ

वति । सखिषु मित्रेषु बाह्येषु मध्ये सुकृतमेव परं मित्रम् । परस्मिमिंल्लोकेऽपि साहायकवि-

धानात् । वैरिषु शत्रुषु बाह्येषु मध्येंऽहः पापमेव परः शत्रुः । तस्यैव पुनःपुनर्जन्मयात

नाहेतुत्वात् । नदीषु यमुनादिषु च नभोनदी स्वर्गङ्गैव परा उत्कृष्टा भवति । प्रभुषु ब्रह्म-

विष्ण्वादिषु च मध्ये एकः शशाङ्कशिखामणिचन्द्रशेखरः परोऽत्युत्कृष्टः ॥

 
न यावदवहीयते धृतिधुरा जराविप्लवै-

र्न जीयेति सरस्वती न च विशीर्यते शेमुषी ।

चामयभुजंगमैरवशमङ्गमालिङ्ग्यते
 

 

भजध्वमजरं विभुं भवजयाय तावहुद्बुधाः ॥ २४ ॥
 

 
हे बुधाः सचेतसः, जराया विस्रुसाया विप्लवैः करचरणादिवैकल्यदायिभिर्वृधृतेर्धैर्यस्य

धुरा भारो यावन्नावहीयते हीना भवति । यावन्न सरस्वती वाणी जीर्यति गद्गदा भवति

यावन्न शेमुषी बुद्धिर्विशीर्यते जीर्णा मन्दतरा न भवति । तथा आमया रोगा एव क्रूर-

त्वाद्भुजंगमास्तैरवशं न स्वायत्तमङ्गं शिरःप्रभृति यावन्नालिङ्ग्यते तावदेवाजरमक्षरमनन्तं

विभुं परमशिवं भवजयाय जन्मशृङ्गलोत्तरणाय भजध्वं सेवध्वम् ॥
 

 
अथेदानीं पूर्वोक्तनवनवस्तवप्रसूनसमर्पणया कृतकृत्यमात्मानं मन्यमानः कविरुपसं-

हारश्लोकेनाह-

 
[^
]. 'शिरोमणिः' ख.
 
Digitized by Google