2023-02-23 21:27:44 by ambuda-bot
This page has not been fully proofread.
२६८
काव्यमाला ।
महामन्त्रैः किं वा भवति । तथा औषधसंग्रहैरौषधानां विशल्यायोषघिविशेषाणां ये सं
प्रहाः समुदायास्तैश्च किं भवति । परैर्मेषजैरगदैः पथ्यैरपि किं वा कार्य भवति । प्रायो
निश्चये । अमृतमपि रसायनमपि जन्मजरामरणत्रासकारणेन य उपतापस्तस्य शमस्तत्र
क्षमं न भवति । तस्मात्करुणापरं दयानिधि तं प्रसिद्धमेकं हरं शरणं व्रजत गच्छत यू-
यम् । स एव केवलं मोक्षदायीत्यर्थः ॥
इह हि गिरिषु प्रालेयाद्रिर्महःसु विभावसु-
गुरुषु जननी मन्त्रेष्वेकाक्षरं परमं पदम् ।
सखिषु सुकृतं वैरिष्वहो नदीषु नभोनदी
हि निश्चये
प्रभुषु च परः स्वामी देवः शशाङ्कशिखामणिः ॥ २३ ॥
प्रसिद्धौ वा । गिरिषु निषधविन्ध्यादिषु मध्ये प्रालेयाद्रिहिमाचल: पर
उत्कृष्टो भवति । कुत्र । इह भूर्लोके । तथा महःसु तेजःसु मध्ये विभावसुः विभा दोप्ति-
र्वसु धनमस्य विभावसुः सूर्यः परो भवति । तथा गुरुष्वाचार्येषु मध्ये जननी माता प
रामवति । 'पतिता गुरवस्त्याज्या न तु माता कदाचन । गर्भधारणपोषाभ्यां तेन माता
गरीयसी ॥' इति स्मृतेः । तथा मन्त्रेषु मननधर्मेषु मध्ये एकं च तदक्षरं न क्षरति स्व-
रूपात्प्रचलतीत्यक्षरं परमुत्कृष्टं पदम् । अकारोकारमकारात्मकं प्रणवाख्यं परमुत्कृष्टं भ
वति । सखिषु मित्रेषु बाह्येषु मध्ये सुकृतमेव परं मित्रम् । परस्मिल्लोकेऽपि साहायकवि-
धानात् । वैरिषु शत्रुषु बाह्येषु मध्येंऽहः पापमेव परः शत्रुः । तस्यैव पुनःपुनर्जन्मयात
नाहेतुत्वात् । नदीषु यमुनादिषु च नभोनदी स्वर्गव परा उत्कृष्टा भवति । प्रभुषु ब्रह्म-
विष्ण्वादिषु च मध्ये एकः शशाङ्कशिखामणिचन्द्रशेखरः परोऽत्युत्कृष्टः ॥
न यावदवहीयते धृतिधुरा जराविप्लवै-
र्न जीयेति सरस्वती न च विशीर्यते शेमुषी ।
चामयभुजंगमैरवशमङ्गमालिङ्गयते
न
भजध्वमजरं विभुं भवजयाय तावहुधाः ॥ २४ ॥
हे बुधाः सचेतसः, जराया विस्रुसाया विप्लवैः करचरणादिवैकल्यदायिभिर्वृधैर्यस्य
धुरा भारो यावन्नावहीयते हीना भवति । यावन्न सरस्वती वाणी जीर्यति गद्गदा भवति
यावन्न शेमुषी बुद्धिर्विशीर्यते जीर्णा मन्दतरा न भवति । तथा आमया रोगा एव क्रूर-
त्वाद्भुजंगमास्तैरवशं न स्वायत्तमङ्गं शिरःप्रभृति यावन्नालिङ्गयते तावदेवाजरमक्षरमनन्तं
विभुं परमशिवं भवजयाय जन्मशृङ्गलोत्तरणाय भजध्वं सेवध्वम् ॥
अथेदानीं पूर्वोक्तनवनवस्तवप्रसूनसमर्पणया कृतकृत्यमात्मानं मन्यमानः कविरुपसं-
हारश्लोकेनाह-
१. 'शिरोमणिः' ख.
Digitized by Google