This page has been fully proofread once and needs a second look.

१८ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२६७
 
हे ईश जगदीश तिरक्षींश्चीं तिर्यक्पातिनीं इष्टः प्रसादो यस्यास्तां दृष्टिटिं भज आश्रय ।

कस्मिन् । भजति सेवमाने मयि । तिर्यक्कटाक्षं मयि मुश्चेत्यर्थ: । दृष्टिं किंभूताम् । कृतं

सुकृतं यैस्ते तादृशा ये सुमेसस्तेषु प्रकर्षेणैघिता वर्धिताभीष्टसिद्धिर्यया सा तादृशीम् ।

शमनस्य यमस्य शममं शान्तिस्तत्र दक्षस्तं तादृशं त्वां विना हे नाथ, दुःसहानां व्या.
-
पदां जन्मजरामरणरूपव्यापत्तीनां रयं वेगं कोऽन्यस्तिरयति तिरस्करोति ॥

 
समरसमरजोभिः स्वान्तमन्तर्वहद्भि-

र्हितविहितवियोगं मोहमाहन्तुकामैः ।

भवविभवविमुक्तैर्योगिभिर्योऽभ्युपेत-

स्तमहतमहनीयश्लाघमीशं प्रपद्ये ॥ २० ॥
 

 
समः स्वर्णलोष्टयोस्तृणस्त्रैणयोः सर्पहारयो रसो यस्य तत्समरसमन्तः स्वान्तं व

हद्भिः । तथा अरजोभिर्निष्पापैः । तथा हितस्य भवाब्ध्युत्तरणस्य विहितः कृतो वि-

योगो येन स तादृशं मोहमज्ञानमाहन्तुकामैः । तथा भवे जन्मनि ये विभवास्तैर्विमुक्ता-

स्तादृशैर्योगिभिरष्टाङ्गयोगरतैर्य ईशो जगदीशः परमशिवोऽभ्युपेत आश्रितस्तमीशं स्वा-

मिनमहता न हता महनीया श्लाघा स्तुतिर्यस्य तादृशं प्रपद्ये शरणं यामि ॥

 
अकलितमहिमानं ध्वस्तमिथ्याभिमानं
दे

[^१]द
ददमृतसमानं बोधमाभासमानम् ।

प्रकटितलघिमानं दुर्वहं वर्धमानं
 

भवभवमवमानं भिन्द्धि मे बाधमानम् ॥ २१ ॥
 

 
हे विभो, अकलितः केनापि न ज्ञातो महिमा यस्य स तादृशम् । तथा ध्वस्तो

मिथ्याभिमानो मिथ्याहंकारो येन स तादृशम् । अमृतसमानं पीयूषतुल्यमा समन्ता-

द्भासमानं प्रकाशमानं बोधं तत्त्वज्ञानं ददद्वितरत् । भक्तजनायेति शेषः । प्रकटितो ल-

घिमा लघुत्वं येन तादृशम् । तथा दुर्वहम् । तथा वर्धमानं वृद्धिं भजन्तम् । तथा बाघ-
ध-
मानं चावमानं तिरस्कारं त्वं मे भिन्द्धि ॥
 

 
एतस्य स्तोत्रस्योपसंहारार्थं वृत्तचतुष्टयमाह–किमिवेत्यादि-

किमिव मणिभिः किं वा मन्त्रैः किमौषधसंग्रहै-

रिह बहुविधैः किं वा कार्यं परैरपि भेषजैः ।

अमृतमपि न प्रायः पापोपतापशमक्षमं
 

व्रजत शरणं तस्मादेकं हरं करुणापरम् ॥ २२ ॥

 
मणिभिर्हीरकपद्मरागमरकतादिभिः किमिव भवति । तथा मन्त्रैः प्रत्यङ्गिराविद्यादि-

 
[^
]. 'दधत्' क- ख.
 
Digitized by Google
 
-