This page has not been fully proofread.

१८ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२६७
 
हे ईश जगदीश तिरक्षीं तिर्यक्पातिनीं इष्टः प्रसादो यस्यास्तां दृष्टि भज आश्रय ।
कस्मिन् । भजति सेवमाने मयि । तिर्यकटाक्षं मयि मुश्चेत्यर्थ: । दृष्टिं किंभूताम् । कृतं
सुकृतं यैस्ते तादृशा ये सुमेघसस्तेषु प्रकर्षेणैघिता वर्धिताभीष्टसिद्धिर्यया सा तादृशीम् ।
शमनस्य यमस्य शममं शान्तिस्तत्र दक्षस्तं तादृशं त्वां विना हे नाथ, दुःसहानां व्या.
पदां जन्मजरामरणरूपव्यापत्तीनां रयं वेगं कोऽन्यस्तिरयति तिरस्करोति ॥
समरसमरजोभिः स्वान्तमन्तर्वहद्भि-
र्हितविहितवियोगं मोहमाहन्तुकामैः ।
भवविभवविमुक्तैर्योगिभिर्योऽभ्युपेत-
स्तमहतमहनीयश्लाघमीशं प्रपद्ये ॥ २० ॥
 
समः स्वर्णलोटयोस्तृणस्त्रैणयोः सर्पहारयो रसो यस्य तत्समरसमन्तः स्वान्तं व
हद्भिः । तथा अरजोभिर्निष्पापैः । तथा हितस्य भवाब्ध्युत्तरणस्य विहितः कृतो वि-
योगो येन स तादृशं मोहमज्ञानमाहन्तुकामैः । तथा भवे जन्मनि ये विभवास्तैर्विमुक्ता-
स्तादृशैर्योगिभिरष्टाङ्गयोगरतैर्य ईशो जगदीशः परमशिवोऽभ्युपेत आश्रितस्तमीशं स्वा-
मिनमहता न हता महनीया श्लाघा स्तुतिर्यस्य तादृशं प्रपद्ये शरणं यामि ॥
अकलितमहिमानं ध्वस्तमिथ्याभिमानं
देददमृतसमानं बोधमाभासमानम् ।
प्रकटितलघिमानं दुर्वहं वर्धमानं
 
भवभवमवमानं भिन्द्धि मे बाधमानम् ॥ २१ ॥
 
हे विभो, अकलितः केनापि न ज्ञातो महिमा यस्य स तादृशम् । तथा ध्वस्तो
मिथ्याभिमानो मिथ्याहंकारो येन स तादृशम् । अमृतसमानं पीयूषतुल्यमा समन्ता-
द्भासमानं प्रकाशमानं बोधं तत्त्वज्ञानं ददद्वितरत् । भक्तजनायेति शेषः । प्रकटितो ल-
घिमा लघुत्वं येन तादृशम् । तथा दुर्वहम् । तथा वर्धमानं वृद्धिं भजन्तम् । तथा बाघ-
मानं चावमानं तिरस्कारं त्वं मे भिन्द्धि ॥
 
एतस्य स्तोत्रस्योपसंहारार्थ वृत्तचतुष्टयमाह–किमिवेत्यादि-
किमिव मणिभिः किं वा मन्त्रैः किमौषधसंग्रहै-
रिह बहुविधैः किं वा कार्य परैरपि भेषजैः ।
अमृतमपि न प्रायः पापोपतापशमक्षमं
 
व्रजत शरणं तस्मादेकं हरं करुणापरम् ॥ २२ ॥
मणिभिर्हीरकपद्मरागमरकतादिभिः किमिव भवति । तथा मन्त्रैः प्रत्यङ्गिरावियादि-
१. 'दधत्' क- ख.
 
Digitized by Google
 
-