This page has been fully proofread once and needs a second look.

२६६
 
काव्यमाला ।
 
हे नाथ, घस्मरो जगद्भक्षकः सह रत्या स्वस्त्रिया वर्तते यः स सरतिर्मारवीरोऽन्तर्ह-

दये सरति संचरति । 'सृ गतौ' धातुः । तथा स्फीता भीतिर्यस्याः सा स्फीतभीतिर्ज-

न्मजरामरणादित्रासेन मनीषा बुद्धिश्चलति कम्पते । केव । लतिकेव सूक्ष्मलतेव । हे

नाथ, अहितो न हितकारी महिमा यस्य स तादृशस्तं मारवीरं स्मरभटं शमय प्रशान्तं

कुरु । किं कृत्वा चक्षुर्निक्षिप्य । कुतस्तत्कुर्वित्याह- येन हेतुना प्रीतिमान्संतुष्टोऽयं

लोको मादृशः शं कल्याणमेति लभते ॥
 

 
जघनजघनशोभा स्पर्धमाना सभृङ्गं
 

कमलकमलकान्तक्रान्तभासा मुखेन ।

मुदितमुदितरागा सेवते देव रामा

मदनमदनवीनैस्त्वत्प्रपन्नं विलासैः ॥ १७ ॥
 

 
हे देव शंभो, जघनाज्जाता घना शोभा यस्याः सा तादृशी । तथालकानां चूर्णकुन्त-

लानामन्तास्तैः क्रान्ता भा यस्य तदलकान्तक्रान्तभास्तेन तादृशेन मुखेन सभृङ्गं भ्र

मरसहितं कमलकं पद्मं स्पर्धमाना । कमलमेव कमलकम् । स्वार्थे कः । तथा उदितो

रागो यस्याः सा उदितरागा रामा रमणी मदनश्च मदश्च ताभ्यां नवीनैर्विलासैस्त्वत्प्रप-

न्
नस्त्वां शरणं प्राप्तस्तं सेवते । कीदृशम् । मुदितम् ॥
 

 
जनितजनितरङ्गं जृम्भयन्ती भवाब्धि
धिं
कलितकलितमिस्रा नाथ कादम्बिनीव ।

हरति हर तितिक्षोन्माथिनी मोहमूर्छा

महितमहित[^१]वृद्धिः शुद्धबोधप्रकाशम् ॥ १८ ॥
 

 
हे हर हे नाथ, 'जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः' इत्यमरः । जनिता जनयो

जन्मान्येव तरङ्गा येन स तं भवाब्धिधिं संसाराब्धिधिं जृम्भयन्त्युल्लासयन्ती तथा कलितं वि-

हितं कलिस्तुरीययुगः कलहो वा स एव तमिस्रं यया सा कादम्बिनी मेघमालेव ।

सापि विहिततमिस्रा । तथा तितिक्षां क्षमामुन्मथ्नातीति तितिक्षोन्माथिनी । तथा अ

हितवृद्धिर्यस्याः सा मोहमूर्छा अविद्यापर्यायाज्ञानमूर्छा महितं पूजितं शुद्धबोध एव प्र-

काशस्तं हरति ॥
 

 
भजति भज तिरश्चीं दृष्टिमिष्टप्रसादां
 

कृतसुकृतसुमेधःप्रैधिताभीष्टसिद्धिम् ।

तिरयति रयमीश व्यापदां दुःसहानां
 

शमनशमनदक्षं त्वां विना नाथ कोऽन्यः ॥ १९ ॥
 

 
[^
]. 'बुद्धिः' ख.
 
Digitized by Google