This page has not been fully proofread.

२६६
 
काव्यमाला ।
 
हे नाथ, घस्मरो जगद्भक्षकः सह रत्या स्वस्त्रिया वर्तते यः स सरतिर्मारवीरोऽन्तर्ह-
दये सरति संचरति । 'सृ गतौ' धातुः । तथा स्फीता भीतिर्यस्याः सा स्फीतभीतिर्ज-
न्मजरामरणादित्रासेन मनीषा बुद्धिश्चलति कम्पते । केव । लतिकेव सूक्ष्मलतेव । हे
नाथ, अहितो न हितकारी महिमा यस्य स तादृशस्तं मारवीरं स्मरभटं शमय प्रशान्तं
कुरु । किं कृत्वा चक्षुर्निक्षिप्य । कुतस्तत्कुर्वित्याह- येन हेतुना प्रीतिमान्संतुष्टोऽयं
लोको मादृशः शं कल्याणमेति लभते ॥
 
जघनजघनशोभा स्पर्धमाना सभृङ्गं
 
कमलकमलकान्तक्रान्तभासा मुखेन ।
मुदितमुदितरागा सेवते देव रामा
मदनमदनवीनैस्त्वत्प्रपन्नं विलासैः ॥ १७ ॥
 
हे देव शंभो, जघनाजाता घना शोभा यस्याः सा तादृशी । तथालकानां चूर्णकुन्त-
लानामन्तास्तैः क्रान्ता भा यस्य तदलकान्तक्रान्तभास्तेन तादृशेन मुखेन सभृङ्गं भ्र
मरसहितं कमलकं पद्मं स्पर्धमाना । कमलमेव कमलकम् । स्वार्थे कः । तथा उदितो
रागो यस्याः सा उदितरागा रामा रमणी मदनश्च मदश्च ताभ्यां नवीनैविलासैस्त्वत्प्रप-
नस्त्वां शरणं प्राप्तस्तं सेवते । कीदृशम् । मुदितम् ॥
 
जनितजनितरङ्गं जृम्भयन्ती भवाब्धि
कलितकलितमिस्रा नाथ कादम्बिनीव ।
हरति हर तितिक्षोन्माथिनी मोहमूर्छा
महितमहितवृद्धिः शुद्धबोधप्रकाशम् ॥ १८ ॥
 
हे हर हे नाथ, 'जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः' इत्यमरः । जनिता जनयो
जन्मान्येव तरङ्गा येन स तं भवाब्धि संसाराब्धि जृम्भयन्त्युल्लासयन्ती तथा कलितं वि-
हितं कलिस्तुरीययुगः कलहो वा स एव तमिस्रं यया सा कादम्बिनी मेघमालेव ।
सापि विहिततमिस्रा । तथा तितिक्षां क्षमामुन्मनातीति तितिक्षोन्माथिनी । तथा अ
हितवृद्धिर्यस्याः सा मोहमूर्छा अविद्यापर्यायाज्ञानमूर्छा महितं पूजितं शुद्धबोध एव प्र-
काशस्तं हरति ॥
 
भजति भज तिरचीं दृष्टिमिष्टप्रसादां
 
कृतसुकृतसुमेधःप्रैधिताभीष्टसिद्धिम् ।
तिरयति रयमीश व्यापदां दुःसहानां
 
शमनशमनदक्षं त्वां विना नाथ कोऽन्यः ॥ १९ ॥
 
१. 'बुद्धिः' ख.
 
Digitized by Google