This page has been fully proofread once and needs a second look.

१८ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२६९
 
हे हर शंभो, शयः कर एव शयनं तत्र निविष्टम् । आ समन्तात्पाण्डू गण्डौ यस्य त

त्
तादृशं वक्रं वहन्ती । तथातिविरहेण चिरविरहेण ग्लानिभाजं खेदभाजं मतिं बुद्धिं व

हन्ती । तथा तनुः कृशा तनुलतिका यस्याः सा तादृशी । आर्ति रागान्धत्वं व्याह-

रन्ती सखीं प्रति मानिनी मानवत्यङ्गनापि त्वत्समाधौ त्वामुद्दिश्य यः समाधिर्ध्यानसंली-

नमनस्कत्वं तस्मिन्बुधानां जितेन्द्रियाणां विदुषां धैर्यं न हरति । 'पञ्चशास्त्रःखः शयः पाणिः'

इत्यमरः ॥
 

 
दलदलघुविवेकं व्यक्तशोकातिरेकं
 

विश विशदमनन्त स्वान्तमन्तः प्रशान्तम् ।

भव भव भवदाहध्वंसवर्षाम्बुवाहः
 

कलिकलितरुजानां सप्रजानां प्रजानाम् ॥ १४ ॥
 

 
हे अनन्त, ब्रह्मादिभिरप्यलब्धपार, विशदं निर्मलं भवदीयध्यानादन्तः प्रशान्तमि-

न्द्रियशौटीर्येयं तिरस्कुर्वत् । तथा दलन्खण्डशो गच्छन्नलघुर्महान्विवेको यस्य तत् । तथा

व्यक्तः शोकस्य जन्मजरामरणदुःखस्यातिरेको यस्य तादृशम् । कलिना तुरीययुगेन क

लिता कृता पीडा येषां तादृशाः कलिकलितरुजास्तासाम् । रुजाशब्द आकारान्तः ।

सप्रजानां सह प्रजया संतत्या वर्तन्ते यास्ताः सप्रजास्तासां सप्रजानां प्रजानां भव एव

दवो दवाभिग्निस्तेन दाहस्तस्य ध्वंसे वर्षाम्बुवाहो वर्षाकालिको मेघो भव संपद्यस्व ॥

 
दहदहतममोघं पाप्मनां दीर्घमोघं
 

रुचिरुचिरममन्दं सुन्दरानन्दकन्दम् ।

दिश दिशदुपदेशं नाशितक्लेशलेशं
 

मधुमधुरमुदारं वाक्यपीयूषसारम् ॥ १५ ॥
 

 
हे नाथ, त्वं वाक्यपीयूषसारं वाक्यामृतसारं दिश देहि । किंभूतम् । अहतं केनापि

न हतम् । तथा किंभूतम् । पाप्मनां पापानां दीर्घेघं विस्तीर्णमोघं समूहं दहत् । पुनः किं-

भूतम् । रुच्याभिलाषेण रुचिरं रम्यम् । पुनः किंभूतम् । अमन्दमनल्पम् । पुनः किंभू-

तम् । सुन्दरो य आनन्दः परमानन्दस्तस्य कन्दं मूलम् । पुनः किंभूतम् । उपदेशं कर्म-

भूतं दिशद्ददत् । किंभूतमुपदेशम् । नाशितः क्लेशानां लेशो येन तत् । तथा किंभूतम् ।

मधुवन्मधुरम् । पुनः किंभूतम् । उदारम् ॥
 

 
सरति सरतिरन्तर्घस्मरो मारवीर-

श्चलति च लतिकेव स्फीतभीतिर्मनीषा ।
 

तमहितमहिमानं नाथ निक्षिप्य चक्षुः
 

शमय शमयमेति प्रीतिमान्येन लोकः ॥ १६ ॥
 
Digitized by Google