2023-02-23 21:27:43 by ambuda-bot
This page has not been fully proofread.
१८ स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
२६९
हे हर शंभो, शयः कर एव शयनं तत्र निविष्टम् । आ समन्तात्पाण्डू गण्डौ यस्य त
तादृशं वक्रं वहन्ती । तथातिविरहेण चिरविरहेण ग्लानिभाजं खेदभाजं मतिं बुद्धिं व
हन्ती । तथा तनुः कृशा तनुलतिका यस्याः सा तादृशी । आर्ति रागान्धत्वं व्याह-
रन्ती सखीं प्रति मानिनी मानवत्यङ्गनापि त्वत्समाधौ त्वामुद्दिश्य यः समाधिर्ध्यानसंली-
नमनस्कत्वं तस्मिन्बुधानां जितेन्द्रियाणां विदुषां धैर्य न हरति । 'पञ्चशास्त्रः शयः पाणिः'
इत्यमरः ॥
दलदलघुविवेकं व्यक्तशोकातिरेकं
विश विशदमनन्त स्वान्तमन्तः प्रशान्तम् ।
भव भव भवदाहध्वंसवर्षाम्बुवाहः
कलिकलितरुजानां सप्रजानां प्रजानाम् ॥ १४ ॥
हे अनन्त, ब्रह्मादिभिरप्यलब्धपार, विशदं निर्मलं भवदीयध्यानादन्तः प्रशान्तमि-
न्द्रियशौटीर्ये तिरस्कुर्वत् । तथा दलन्खण्डशो गच्छन्नलघुर्महान्विवेको यस्य तत् । तथा
व्यक्तः शोकस्य जन्मजरामरणदुःखस्यातिरेको यस्य तादृशम् । कलिना तुरीययुगेन क
लिता कृता पीडा येषां तादृशाः कलिकलितरुजास्तासाम् । रुजाशब्द आकारान्तः ।
सप्रजानां सह प्रजया संतत्या वर्तन्ते यास्ताः सप्रजास्तासां सप्रजानां प्रजानां भव एव
दवो दवाभिस्तेन दाहस्तस्य ध्वंसे वर्षाम्बुवाहो वर्षाकालिको मेघो भव संपद्यस्व ॥
दहदहतममोघं पाप्मनां दीर्घमोघं
रुचिरुचिरममन्दं सुन्दरानन्दकन्दम् ।
दिश दिशदुपदेशं नाशितक्लेशलेशं
मधुमधुरमुदारं वाक्यपीयूषसारम् ॥ १५ ॥
हे नाथ, त्वं वाक्यपीयूषसारं वाक्यामृतसारं दिश देहि । किंभूतम् । अहतं केनापि
न हतम् । तथा किंभूतम् । पाप्मनां पापानां दीर्घे विस्तीर्णमोघं समूहं दहत् । पुनः किं-
भूतम् । रुच्याभिलाषेण रुचिरं रम्यम् । पुनः किंभूतम् । अमन्दमनल्पम् । पुनः किंभू-
तम् । सुन्दरो य आनन्दः परमानन्दस्तस्य कन्दं मूलम् । पुनः किंभूतम् । उपदेशं कर्म-
भूतं दिशद्ददत् । किंभूतमुपदेशम् । नाशितः क्लेशानां लेशो येन तत् । तथा किंभूतम् ।
मधुवन्मधुरम् । पुनः किंभूतम् । उदारम् ॥
सरति सरतिरन्तर्घस्मरो मारवीर-
श्चलति च लतिकेव स्फीतभीतिर्मनीषा ।
तमहितमहिमानं नाथ निक्षिप्य चक्षुः
शमय शमयमेति प्रीतिमान्येन लोकः ॥ १६ ॥
Digitized by Google