This page has been fully proofread once and needs a second look.

२ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
१३
 
'सर्गबन्धो महाकाव्यम्' इत्यभियुक्तोक्तेः । स्थलकमलमपि अन्तः शून्यं कणिकावर्जि-

तम् । तथा गुणैः सूक्ष्मतन्दुतुभिर्विरहितं निर्मुक्तम् । तथा नीरसं सर्गहीनम् । नीरस्य

जलस्य यः संसर्गो योगस्तेन हीनम् । स्थलोत्पन्नत्वात् । एतादृशं स्थलकमलं सुमनसां

पुष्पाणां मध्ये न हृद्यं न हृदयप्रियं कस्यापि । तत्रापि एवमपि सति ईश: परमैश्वर्यम-

हाम्भोधिर्मत्काव्यं श्रवणपुलिने कर्णतटे कर्तुमर्हति । अत्र हेतुमाह - गाढेत्यादि ।

गाढश्चासौ रागो वाङ्मनःकायैस्तदासक्तिस्तस्यानुबन्धोऽव्युच्छिन्नता तेन प्रोद्यन्ती

या भक्तिस्तया प्रगुणितं प्रकृष्टगुणं संपादितं यतो मत्काव्यमित्यर्थः । अत एवा-

गर्हे निर्दोषं साधुजनश्लाघ्यम् । स्थलाम्भोजपक्षे - गाढरागानुबन्धो नित्यलौहित्ययोगस्ते-

न या प्रोद्यन्ती भक्तिर्विच्छित्तिस्तया प्रगुणोकृतम् । अत एवागर्हं निर्दोषम् ॥

पूर्वश्लोकेनापरितुष्यन्नन्यथा तमेव पुनः समर्थयति -
 

 
अथवामृतबिन्दुवर्षिणीन्दुद्युतिरानन्दममन्दमर्पयन्ती ।
 

नयति ध्रुवमार्द्रतामियं गीर्गिरिजाजीवितनाथमिन्दुकान्तम् ॥ ३१ ॥
 

 
अथवेति । अथवा पक्षान्तरे । इयं गीर्मम वाणी गिरिजाजीवितनाथं पार्वतीप्राणप्रियं

शंभुं ध्रुवं निश्चितमार्द्रतां नयति । कृपामृतरसासिक्तचित्तमुमानाथं संपादयतीत्यर्थः ।

कीदृशं शंभुम् । इन्दुकान्तम् । इन्दुना मौलिस्थेन कान्तस्तम् । इयं मे गीः किंभूता ।

अमृतबिन्दुवर्षिणी । तथा इन्दुद्युतिः इन्दुवद्द्युतिर्यस्याः । तथा अमन्दं बहुतरमानन्द-

मर्पयन्ती । यथा अमृतबिन्दुवर्षिणी अमन्दं चानन्दमर्पयन्ती इन्दुद्युतिश्चन्द्र कान्तिश्च-

न्द्रकान्तमणिमार्द्रतां नयति जलार्द्रीकरोतीत्यत्रारोपकार्थः ॥
 

 
इति श्रीशारदाचरणसरोजरजःकणपवित्रस्थलवास्तव्यविपश्चिद्वरराजानकशंकर-

कण्ठात्मजराजानकरत्नकण्ठविरचितया स्तुतिकुसुमाञ्जलिलघुपश्ञ्चिका
कया
समेतः काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य

स्तुतिकुसुमाञ्जलौ स्तुतिप्रस्तावनाख्यं प्रथमं स्तोत्रम् ।
 

 
द्वितीयं स्तोत्रम् ।

 
अथ नमस्कारस्तोत्रं द्वितीयमारभमाण आह -
 
·
 

 
ओं नमः परमार्यैथैकरूपाय परमात्मने ।

स्वेच्छावभासितासत्यभेदभिन्नाय शंभवे ॥ १ ॥
 

 
ओं नम इति । ओमिति मङ्गलार्थः । परमात्मने । परमो जीवात्मनः परतर आत्मा

व्यापकः परमात्मा चिदानन्दघनस्वरूपस्तस्मै नमः कर्तृ अस्तु । किंभूताय । परमार्थैकरू-

पाय । परम उत्कृष्टो योऽर्थः पुरुषार्थो मोक्षाख्यः स एवैकं रूपं यस्य तस्मै । मोक्षरू-

पेणानन्दस्वरूपायेत्यर्थः । 'आनन्दो ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम्' इति श्रुतेः ।

परमाणुरूपश्चेत्यर्थः । यद्वा परमार्थः संवित् सैवैकं रूपं यस्य । तथा च श्रीमदाचार्यव-
Digitized by Google