This page has not been fully proofread.

१८ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२६३
 
श्रीशंभुपादाब्जभक्तिप्रसादाद्गजेन्द्राणामुपरि
 
सहेलं संचरन्तः श्रीशंभुभक्ता घनो यो
मदभरो मदाम्बुभरस्तस्मिन्निर्यन्निर्भरामोदस्तस्य लोभेन स्खलद्यदलिकुलं तस्य गीतं
स्फीतं पूर्णमाकर्णयन्ति शृण्वन्ति ॥
चरणकमलयुग्मं देव निर्दम्भभक्ति-
ग्रहपुलकितदेहस्तावकं यो ननाम ।
अधिवसति स सेवानम्रसामन्तमौलि-
स्खलितबकुलमालालालितं पादपीठम् ॥ ७ ॥
 
हे देव परमेश, निर्दम्भा निश्छद्मा या भवद्भक्तिस्तस्या ग्रहेण रोमाञ्चितो देहो यस्य
तादृग्यो धन्यस्तावकं पादाब्जयुगलं ननाम स सुकृती पुण्यवान्सेवायां नम्रा ये सामन्ता
मण्डलेश्वरा नृपास्तेषां जौलिभ्यः स्खलिता या बकुलारूयकुसुम मालास्ताभिर्लालितं सुर-
भितं पूरितं च पादपीठमधितिष्ठति ॥
 
शशिशकलशिखण्ड त्वत्प्रसादेन धन्याः
 
सितकरधवलाभ्यां चामराभ्यां विभान्ति ।
उभयत इव वक्रं भाविरुद्रत्वलाभ-
प्रकटनपिशुनाभ्यां स्वर्णदीनिर्झराभ्याम् ॥ ८ ॥
 
हे शशिशकलशिखण्ड चन्द्रार्धमौले, धन्याः सुकृतिनस्त्वत्प्रसादेन वक्रमुभयतः पार्श्व-
द्वयेऽपि स्वर्धुनीनिर्झराभ्यामिव सितकरधवलाभ्यां चामराभ्यां विभान्ति । स्वर्धुनीनि
राभ्यां किंभूताभ्याम् । भावी यो रुद्रत्वलाभस्तस्य प्रकटनं तस्य पिशुनौ सूचकौ ता-
भ्याम् । 'पिशुनौ खलसूचकौ' इत्यमरः ॥
 
क्षितिधरपतिपुत्रीवल्लभ त्वत्प्रसादा-
इधति जगति धन्या मूर्ध्नि धौतातपत्रम् ।
घटयितुमधिकत्वं स्वात्मनोऽपि त्वयैत-
त्सकलमिव वितीर्ण मण्डलं शीतरश्मेः ॥ ९ ॥
 
हे पार्वतीवल्लभ श्रीशंभो, धन्याः सुकृतिनो जगति भूमण्डले त्वत्प्रसादान्मूर्न्यातपत्रं
छत्रं दधति । अत्रोत्प्रेक्षामाह—स्वात्मनोऽर्धेन्दुधारिणोऽपि सकाशादधिकत्वं लम्भयितुं
तेषां त्वया विभुना एतत्सकलं शीतरश्मेर्मण्डलं वितीर्ण दत्तमिव ।
अयि हृदय दयार्द्रः स्वर्धुनीनीरधारी
 
त्वयि विहरति हस्तन्यस्तपीयूषकुम्भः ।
यदि हिमकरलेखाशेखरः कोऽपरस्ते
 
भवदवविनिवृत्तौ शंस शीतोपचारः ॥ १० ॥
 

 
Digitized by Google