This page has not been fully proofread.

२६२
 
काव्यमाला ।
 
प्रभवति । किंभूते मुखपद्मे । अनलसा आलस्यरहिता श्रीशिवस्तुत्युद्योगानुकूला हिता
च वृत्तिः शब्दव्यापारो यस्मिंस्तादृशे । पुनः किंभूते । सत्यः शोभनाः कलाश्चतुःषष्टि-
स्तासामाभासः शोभा तथा शुद्धे । भारती किंभूता । निर्मलोमि निर्मला ऊर्मय उल्लास-
रूपास्तरङ्गा यस्याः सा तथा किंभूता। परमा उत्कटा ये तापा आध्यात्मिकाधिदैवि-
काधिभौतिकास्तथा क्लेशा: पञ्चाविद्यादयस्ताञ्जयतीति तादृशी । भारती केव । भवदीये
तावके मूर्ध्नि स्वर्धुनी गङ्गेव । सापि किंभूता । निर्मला ऊर्मयो वीचयो यस्याः । तथा
परमो यस्तापः संतापस्तेन यः क्लेशस्तं जयतीति तादृशी । भवदीये मूर्ध्नि शिरस्यपि की
दृशे । अनलेनाग्निना सहिता वृत्तिः स्थितिर्यस्य स तादृशे । पुनः किंभूते । सती या
कला चन्द्रकला तस्या आभासेन प्रकाशेन शुद्धे । शब्दश्लेषोऽलंकारः ॥
भव भवमरुचारश्रान्तसंतापतान्ति-
प्रशमनघनवर्षावारिवाहं तवाहम् ।
नमदमरकिरीटप्रोतरत्नांशुपूर-
स्फुरदुरुसुरचापं पादपीठं प्रपद्ये ॥ ४ ॥
 
हे भव मद्देश, भवः संसार एव मरुर्निर्जलप्रदेशस्तत्र चारेण श्रान्तानां देहिनां यः स
म्यगाध्यात्मिकादिस्त्रिविधस्तापः पः स एव संतापस्तस्य तान्तिर्विस्तारस्तत्प्रशमने धनं
सान्द्रं प्रावृालवारिवाहम् । तथा नमन्तो येऽमरा ब्रह्मविष्ण्वायास्तेषां किरीटेषु मौ-
लिषु प्रोतान्युम्भितानि यानि रत्नानि तदंशपूर एव स्फुरदुरु इन्द्रचापं यस्मितादृशं
त्वत्पादपीठमई प्रपद्ये शरणमाश्रयामि ॥
 
करकलितकपोला बालशेवालशय्या-
तललुलितमृणालीपेलवम्लानमूर्तिः ।
चिरविरहविनिद्रा रुद्रहक्पातपात्रं
 
दिशि दिशि निशि पश्यत्यङ्गनानङ्गभीरुः ॥ ५ ॥
करे दक्षिणेतरे कलितो न्यस्तः कपोलो वियोगवशायया सा तथा बालानि यानि
शेवालानि जलनील्यस्ता एव शय्यातलं तत्र लुलिता लुठिता मृणालीवत्पेलवा कोमला
म्लाना मूतिर्यस्याः सा । तथा चिरविरहेणोन्निद्रा । तथानङ्गभीरुः कामोद्रेककातरा अ
ङ्गना वरकामिनी रुद्रस्य श्रीशंभोर्यो दृक्पातोऽनुग्रहदृष्टधंशपातस्तस्य पात्रं पुरुषं दिशि
दिशि निशि रात्रौ पश्यति ॥
 
हरचरणसरोजद्वन्द्वभक्तिप्रसादा-
दुपरि करिवराणां संचरन्तः सहेलम् ।
घनमदभरनिर्यन्निर्भरामोदलोभ-
स्खलदलिकुलगीतं स्फीतमाकर्णयन्ति ॥ ६ ॥
 
Digitized by Google