This page has been fully proofread once and needs a second look.

२६०
 
काव्यमाला ।
 
कारागारानुकारे परिभवति भवे बद्धमोहान्धकारे
 

भावत्की भक्तिरेका शरणमशरणत्राणविश्राणिनी नः ॥ २८ ॥
 

 
हे देव स्मरहर श्रीशंभो, एवं पूर्वोक्तप्रकारेण वर्णिता विषमतममत्युत्कटं यत्तमोऽवि-

द्यापरपर्यायमज्ञानं तस्य खण्डने चण्डिमानमुत्कटत्वमासादयन्ती प्राप्तवती बद्धः समु-

न्
नद्धो मोहोऽज्ञानमेवान्धकारो यस्मिमिंस्तादृशे कारागृहसदृशे बन्धके भवे संसारे परि-

भवति परिभवं कुर्वति एका भावत्की भक्तिरेवाशरणानां नोऽस्माकं त्राणं परिपालनं

तस्य विश्राणिनी दात्री शरणं भवति । केव । सकलद्वीपदीपस्य दिनमणे: प्रभा दीप्ति-

रिव । सापि ध्वान्तच्छेदे चण्डिमानमासादयन्ती भवति ॥
 

 
ये विश्वस्थितिसर्गसंहृतिकृतो देवास्त्रयस्तेऽपि यं
 

सेवन्ते मुखवीक्षणप्रणयिनो दृक्पातमात्रार्थिनः ।

यस्याः स प्रभुरप्रमेयमहिमा क्रीडाशकुन्तायते
 

तां भक्ति भुवनत्रयाद्भुतमहामाहात्म्यशक्तितिं स्तुमः ॥ २९ ॥

 
ये त्रयो देवा ब्रह्मविष्णुरुद्रा विश्वस्य सृष्टिस्थितिसंहारकार्यकृतस्तेऽपि किमयं

परमेश आज्ञां विधास्यतीति मुखवीक्षणे परास्तत्परा दृगंशमात्रापेक्षिणो यस्य देवस्य

सन्ति स प्रभुः शिवादिक्षित्यन्तस्य सर्गस्य स्वामी अमेयमहिमा यस्या भक्तेः क्रीडा-

शकुन्तवदाचरति । तदधीनो बद्धो भवतीत्यर्थः । तां त्रिभुवनेऽप्यद्भुतप्रभावशालिनीं

श्रीशिवभक्तितिं स्तुमः ॥
 

अथैतदारम्भेण कृतार्थमात्मानं मन्यमानः कविराह-

 
गावस्तावद्दुहाना रसमसमसुधासोदरास्वादबन्धुं

भक्तिर्भर्गे निसर्गक्लमशमनचमत्कारभोगैकभूमिः ।

तृप्तिः स्वात्मावभासादनुपमपरमानन्दनिःस्यन्दसंवि-

 

द्विश्रान्त्येकान्तहेतोरिति सपदि विपत्किकिंकरी किं करोतु ॥ ३० ॥

 
तावत्प्राथम्ये । असमोऽनन्यसमः सुधासोदरो य आस्वादस्तस्य बन्धुः लक्षणया

सदृशस्तादृशं रसं मुख्यमत्र शान्तं रसं दुहाना गावो वाचोऽर्थान्मदीयाः । अथ गावो-

ऽपि रसममृतं दुहानाः सन्ति । तथा निसर्गतः स्वभावेन क्लमः कष्टं तस्य शमनेन

यश्चमत्कारयोगोऽत्यद्भुतत्वं तस्यैव भूमिर्भर्गे भक्तिरस्ति यदि । तथा स्वश्चासावात्मा

तस्यावभासः प्रबोधस्तस्मादनुपमो यः परमानन्दस्तेन निःस्यन्दा या संविदात्मज्ञानं

तस्यां विश्रान्तिः सैव एकान्तेन हेतुस्तस्माद्विश्रान्ति हेतोस्तृप्तिश्च । अमृतरसा-

स्वादश्चमत्कारभोगस्तर्पणं चेति मे सन्ति । इति हेतोः किंकरी वराकी विपत्किकिं करोतु

किं विधत्ताम् । एतानि वस्तूनि चेद्भवेयुस्तदाविपदवकाशो न भवतीत्यर्थ इति शिवम् ॥

इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं काश्मीरक

महाकविश्रीजगद्धर भट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ

भक्तिस्तोत्रं नाम सप्तदशं स्तोत्रम् ।
 
Digitized by Google