2023-02-23 21:27:42 by ambuda-bot
This page has not been fully proofread.
२६०
काव्यमाला ।
कारागारानुकारे परिभवति भवे बद्धमोहान्धकारे
भावत्की भक्तिरेका शरणमशरणत्राणविश्राणिनी नः ॥ २८ ॥
हे देव स्मरहर श्रीशंभो, एवं पूर्वोक्तप्रकारेण वर्णिता विषमतममत्युत्कटं यत्तमोऽवि-
द्यापरपर्यायमज्ञानं तस्य खण्डने चण्डिमानमुत्कटत्वमासादयन्ती प्राप्तवती बद्धः समु-
नद्धो मोहोऽज्ञानमेवान्धकारो यस्मिस्तादृशे कारागृहसदृशे बन्धके भवे संसारे परि-
भवति परिभवं कुर्वति एका भावत्की भक्तिरेवाशरणानां नोऽस्माकं त्राणं परिपालनं
तस्य विश्राणिनी दात्री शरणं भवति । केव । सकलद्वीपदीपस्य दिनमणे: प्रभा दीप्ति-
रिव । सापि ध्वान्तच्छेदे चण्डिमानमासादयन्ती भवति ॥
ये विश्वस्थितिसर्गसंहृतिकृतो देवास्त्रयस्तेऽपि यं
सेवन्ते मुखवीक्षणप्रणयिनो दृक्पातमात्रार्थिनः ।
यस्याः स प्रभुरप्रमेयमहिमा क्रीडाशकुन्तायते
तां भक्ति भुवनत्रयाद्भुतमहामाहात्म्यशक्ति स्तुमः ॥ २९ ॥
ये त्रयो देवा ब्रह्मविष्णुरुद्रा विश्वस्य सृष्टिस्थितिसंहारकार्यकृतस्तेऽपि किमयं
परमेश आज्ञां विधास्यतीति मुखवीक्षणे परास्तत्परा हगंशमात्रापेक्षिणो यस्य देवस्य
सन्ति स प्रभुः शिवादिक्षित्यन्तस्य सर्गस्य स्वामी अमेयमहिमा यस्या भक्तेः क्रीडा-
शकुन्तवदाचरति । तदधीनो बद्धो भवतीत्यर्थः । तां त्रिभुवनेऽप्यद्भुतप्रभावशालिनीं
श्रीशिवभक्ति स्तुमः ॥
अथैतदारम्भेण कृतार्थमात्मानं मन्यमानः कविराह-
गावस्तावद्दुहाना रसमसमसुधासोदरास्वादबन्धुं
भक्तिर्भर्गे निसर्गक्लमशमनचमत्कारभोगैकभूमिः ।
तृप्तिः स्वात्मावभासादनुपमपरमानन्दनिःस्यन्दसंवि-
।
द्विश्रान्त्येकान्तहेतोरिति सपदि विपत्किकरी किं करोतु ॥ ३० ॥
तावत्प्राथम्ये । असमोऽनन्यसमः सुधासोदरो य आस्वादस्तस्य बन्धुः लक्षणया
सदृशस्तादृशं रसं मुख्यमत्र शान्तं रसं दुहाना गावो वाचोऽर्थान्मदीयाः । अथ गावो-
ऽपि रसममृतं दुहानाः सन्ति । तथा निसर्गतः स्वभावेन क्लमः कष्टं तस्य शमनेन
यश्चमत्कारयोगोऽत्यद्भुतत्वं तस्यैव भूमिर्भर्गे भक्तिरस्ति यदि । तथा स्वश्चासावात्मा
तस्यावभासः प्रबोधस्तस्मादनुपमो यः परमानन्दस्तेन निःस्यन्दा या संविदात्मज्ञानं
तस्यां विश्रान्तिः सैव एकान्तेन हेतुस्तस्माद्विश्रान्ति हेतोस्तृप्तिश्च । अमृतरसा-
स्वादश्चमत्कारभोगस्तर्पणं चेति मे सन्ति । इति हेतोः किंकरी वराकी विपत्कि करोतु
किं विधत्ताम् । एतानि वस्तूनि चेद्भवेयुस्तदाविपदवकाशो न भवतीत्यर्थ इति शिवम् ॥
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक
महाकविश्रीजगद्धर भट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
भक्तिस्तोत्रं नाम सप्तदशं स्तोत्रम् ।
Digitized by Google