This page has been fully proofread once and needs a second look.

१७ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
२५९
 
सन्तो नारकाणां नरकस्थानां पत्रिणां पक्षिणां तुण्डदण्डाश्चबुञ्चुदण्डा अदयं निर्दयं कृत्वा

जडानां मूढानां तेषामन्तर्हृदयं भिन्दन्ति । 'पत्रिणौ शरपक्षिणीणौ' इत्यमरः ॥ तुलितं

विशेषेण वलद्वाबालं मार्णालनालं मृणालसंबन्धि नालं येन तत्तादृशम् । तथा सालंकारं

केयूरकङ्कणाद्युपेतम् । तथा रणिताः सशब्दा वलयाः कटका यस्मिंस्तत् । पङ्केरुहदल-

दृश: पद्मपत्राक्ष्या वरकामिन्या बाहुद्वन्द्वमेतन्मोहान्धानां रागान्धानां कण्ठपीठे वेष्टितं

तदेव कालेन महति यातना नरकयातनैवातङ्कः स एव पङ्कः कर्दमस्तस्मिन्पततां पुंसां

पाशतां लोहमयपाशतामेति एतदहं शङ्के ॥ साकूतं साभिप्रायं सविलासं च मुकुलित-

दृशः संकुचिताक्ष्याः केतक कुसुमामोदवद्धृद्यम् । सद्यस्तत्क्षणमेव स्विद्यत्स्वेदं सात्त्विकभावं

भजत् । अमृतस्यन्दि रसायनरसस्यन्दि नताङ्ग्याश्चार्वथाङ्ग्या वदनं मुखं रागान्धैः पीतं

परिचुम्बनेना स्वादितमहं जाने देव, भूयः पुनर्दुरापावसाने दुष्प्रापान्तेनरकगृहे पतनार्
थं
यः शपथः स एवाक्रोशः शापो गर्ह्यवचनं नाम तस्य कोष: [शपथविशेष:] तद्भावमेति

प्राप्नोति ॥ कनककलशाकारं स्वर्णकलशाकृति । आलम्बि लम्बमानो हारो यस्य

तत्तादृशम् । पृथु विस्तीर्णेणं पीनं च सारङ्गाक्ष्या मृगाक्ष्याः कुचद्वन्द्वं मूढै रागोद्रेकाद्रा-

गान्धत्वाद्यद्गाढमालिङ्गितं तदेव कुचयुगमन्तकाले निर्याणावसरे नरककलिले नरकपङ्के

मज्
जतां तेषां मूढानां कण्ठे लभाग्नातिस्थिरगुरुशिलाभावं बिभर्ति धारयति ॥ वचनानां

स्वविवेत्रोकोत्पादकवैराग्यवचनानां रचनाडम्बरै रचनाटोपैर्भूयोभिर्बहुतरैः किं भवति ।

एतत्पूर्वोक्तं मदीयं सूक्तमवधार्य हे दीर्घशोका लोकाः, सुतरामतिशयेन युक्तं युक्तिम

त्पश्चिमं ममैतद्वाक्यं सावधानाः शृणुत । दुःखो दुःखदायी उदर्क उत्तरं फलं यस्य स

तादृशम् । परिणामदु:खदमित्यर्थः । प्रमुख आमुख एव सुखदं साङ्गं संपूर्ण त्यक्त्वा

गाङ्गं सलिलं जाह्नवीजलं चामलं निर्मलं लब्ध्वा शंभुभक्तिमेव भजध्वं सेवध्वम् ॥

 
त्रैलोक्यं लम्भयन्तस्तृणगणगणनां रोहिणीकान्तलेखा-

रेखालंकारभक्तिप्रमुदितमनसो निर्मलं घाम लब्धुम् ।

धन्याः संन्यासिनोऽन्तः कलिमलपटलं भूरिभिन्दन्त्यमन्दा
 

मन्दाकिन्याः पयोभिः शशिमुकुटजटावैजयन्तीदुकूलैः ॥ २७ ॥

 
त्रैलोक्यं त्रिजगदपि सावहेलं तृणगणगणनां लम्भयन्तः प्रापयन्तः । अतीव निः-

स्पृहा इत्यर्थः । चन्द्रकलालंकारस्य श्रीशंभोर्भक्त्या प्रमुदितं प्रकर्षेण मुदितं मनो

येषां ते । तथा अमन्दा अजडाः । प्राज्ञा इत्यर्थः । संन्यासिनः श्रीशिवार्पणं विधाय

कर्म संन्यासा धन्याः सुकृतिनो निर्मलं स्वच्छतरं परं ज्योतीरूपं धाम स्थानं परमपदं

लब्धुं श्रीशशिमुकुटजटावैजयन्तीदुकू लैर्हरजटा पताकाधवल पट्टाम्बरभूतैर्गङ्गाया वारिभि

र्भूरि बहुलं कलौ तुरीययुगे मलानामाणवमायीयकार्मत्वेन त्रिविधानां समूहं भिन्दन्ति ॥

 
एवं देव प्रमेव स्मरहर सकलद्वीपदीपस्य भर्तु-

र्भासामासादयन्ती विषमतमतमःखण्डने चण्डिमानम् ।
 
Digitized by Google