This page has been fully proofread once and needs a second look.

१७ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
२५७
 
यस्या आन्वीक्षिकी तर्कविद्या मा भूत् । सुशिक्षिता मा भूदित्यर्थः । यतः सापि ज-

न्मिनो भवार्ति हर्तुतुं न क्षमा । 'आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः' इत्य-

मरः । दम्यतेऽनेनेति दमनं वा दण्डः । स नीयते दम्यं जनं प्रति प्राप्यते यया सा दण्ड-

नीतिरर्थशास्त्रं राजनीतिर्विपत्खण्डिनी ब्राह्माया विपदः खण्डिन्यपि दूरे विहरतु संचरतु ।

सापि भवहरी नास्तीत्यर्थः । तथा कलिता विहिता उल्लाघस्यारोग्यस्य वार्ता वृत्तान्तो

यया सा तादृशी वार्तापि वर्तनं वृत्तिरस्त्यस्यां वार्ता । 'प्रज्ञाश्रद्धार्चाभ्यो णः' (वृत्तेश्च)।

'आजीवो जीविका वार्ता' इत्यमरः । 'स्त्रियां कृषिः पाशुपाल्यं बावाणिज्यं चेति वृत्तयः'

इति च । वार्ता कृषिपाशुपाल्यवाणिज्यादिरूपा सापि स्थेम्ना स्थैर्येण क्वापि देशे लसतु ।

तयापि न प्रयोजनमित्यर्थः । सिद्धान्तमाह —–नार्तावईमित्यादि । आर्तौ भविनां जन्म-

जरामरणत्राससंकटे शंभुभक्तितिं श्रीशिवभक्तितिं विनान्यच्छरणं नार्हं योग्यं न भवति ॥

 
संसाराब्धेः प्रथमलहरी पातकापातकामा
 

रामा नाम स्थगयति गति मज्जतां सज्जनानाम् ।

मोहावर्तभ्रमसमुदयत्खेदविच्छेदहेतुः
 

सेतुर्दूरीभवति च भृशं शेमुषी शेमुषीयम् ॥ २० ॥

 
तस्मादस्माज्जननमरणक्लेशवेशन्तपङ्का-

च्छङ्कातङ्काकुलितमतयो ये तितीर्षन्ति तेषाम् ।

आशापाशग्रथितवैपुषां[^१] क्रन्दतामातुराणां
 

प्राणापाते वितरति करालम्बनं शंभुभक्तिः ॥ २१॥ (युगलकम्)
 

 
नाम निश्चये । संसार एवाब्धिरनन्तत्वात् । तस्य भवाब्धेः प्रथमलहरी आद्या

वीचिर्महावेगवती पातके दुष्कृते आपातस्तं कामयते तस्यां कामो वा यस्याः सा ।

रमते कामिजने रामाङ्गना । मतां संसाराब्धौ सज्जनानां साधूनां गतिमूर्ध्वगमनं

स्थगयति रुद्धि । अत्रोपायविशेषमाह —–—मोहावर्तेति । मोहोऽज्ञानरूप आवर्तोऽम्भसां

भ्रमः स एव भ्रमो भ्रमणं तेन समुदयन्यः खेदस्तस्य विशेषेण च्छेदस्तत्र हेतुः ।

सेतुः 'सिन्वन्ति बध्नन्ति यमुत्तरणार्थमिति सेतुः' इति रायमुकुट्याम् । सेतुः सेतुरूपा ।

भृशमत्यर्थं शेमुषी शमप्रधाना इयं शेमुषी बुद्धिरेव दूरीभवति । इन्द्रियप्रशमस्याति

कष्टसाध्यत्वात् । 'शेते मनसि शे मोहस्तं मुष्णातीति शेमुषी' इति रायमुकुटीकारः ।

यतो भवाब्धौ मन्बज्जतां साधूनां रामा गतिं स्थगयति तस्माद्धेतोर्जननमरणाभ्यां यः क्लेशः

प्रयासः स एव वेशन्तः । विशन्ति मजन्त्यस्मिन् । 'वेशन्तः पल्वलं चाल्पसरः' इत्य-

मरः । तत्र यः पङ्को दुष्कृतरूपकर्दमस्तस्माच्छङ्कैवातङ्कस्तेनाकुलिता मतिर्येषां ते तादृ-

शा ये तितीर्षन्ति तर्तुमिच्छन्ति तेषां जनानामाशैव पाशस्तेन प्रथितं वपुः कलेवरं

 
[^
]. 'मनसां' ख.
 
Digitized by Google