This page has been fully proofread once and needs a second look.

२१६
 
इदानीं स्वावस्थां निवेदयति कविः-

 
मूर्तिर्धूर्तितिं प्रथयति यथा मञ्जरी जीर्णपर्णा

कर्णाभ्यर्णं प्रसरति जरा सत्यतो मृत्युदूती ।

भोगा भोगा इव विदधतश्चेष्टितं वेष्टयन्ते
 

हन्तेदानीं शरणमपरं नास्ति नः शंभुभक्तेः ॥ १७ ॥

 
नोऽस्माकं मूर्तिस्तनुधूर्ति 'धुर्वी हिंसायां' धातुः । धातू नामनेकार्थत्वादूद्धूर्ति कम्पं ज

राशैथिल्येन प्रथयति विस्तारयति । का यथा । यथाशब्द इवार्थे । जीर्णपर्णा मञ्जरी

लता यथा धूर्ति कम्पं प्रथयति । यथा सत्यतो निश्चितं मृत्युदूती यमदूती जरा पलितं

नः कर्णाभ्यर्णं श्रोत्रसमीपं प्रसरति याति । तथा भोगा विषयाः शब्दाद्या वेष्टितं बहिः-

स्पन्दं वेष्टयन्ते परिवलितं नः कुर्वते । हन्त कष्टे । इदानीमस्यामवस्थायां शंभुभक्तेः

श्रीशिवभक्तेः सकाशात्रोन्नोऽस्माकमपरं शरणं पालयितृपर्यायं नास्ति ॥
 
काव्यमाला ।
 

 
यत्र ध्वान्तक्षपणनिपुणं [^१]दुर्बलं धाम चान्द्रं
 

सान्द्रं यत्र ग्लपयति तमस्तापनो यन्न तापः ।

यत्र प्रेङ्खन्न कै[^२]कचति शिखी तेजसान्येन सत्रा
 

तत्रालोकं दिशति विषमे शांभवी भक्तिरेका[^३]
 
१८ ॥
 

 
ध्वान्तस्य बाह्यतिमिरस्य क्षपणं निराकरणं तत्र निपुणं कोविदं चान्द्रं धाम महो

यत्र मोहान्धतमसे निराकर्तव्ये दुर्बलमसमर्थे भवति । यत्र च तापनः सूर्यसंबन्धी ताप

उद्दघोद्योतोऽपि तमोऽविद्यापर्यायं न ग्लपयति न नाशयति । यत्र च प्रेङ्खन्नुल्लसञ्शिखी

मिग्निरन्येन तेजसा ग्रहतारामणिविशेषादिजेन सत्रा सह न कचति न दीप्यते तत्र

विषमेऽतिसंकटे मोहान्धतमसे एकैव शांभवी भक्तिरालोकं प्रकाशं दिशति ददाति ।

तथा च 'न तत्र सूर्यो भाति न चन्द्रतारके नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव

भान्तमनु भाति सर्वे तस्य भासा सर्वमिदं विभाति ॥' इति रहस्यश्रुतिः । अतश्च तस्यैव

परज्योतिषो भावनयाज्ञानतमोनिवृत्तिरात्यन्तिकी भवतीत्यर्थः ॥
 

 
मा भूद्भूयोऽभ्यसनसुलभान्वीक्षिकी नाम विद्या
 

हृद्या दूरे विहरतु वियत्खण्डिनी दण्डनीतिः ।

क्वापि स्थेम्ना लसतु कलितोल्लाघवार्तापि वार्ता
 

नार्तावर्हं किमपि शरणं शंभुभक्ति विनान्यत् ॥ १९ ॥

 
नाम निश्चये । अतिशयेन बहुर्भूयः । तादृग्यदभ्यसनमभ्यासस्तेन सुलभा भूयोऽभ्य-

सनसुलभा आन्वीक्षिकी प्रत्यक्षागमाभ्यामीक्षितस्य पश्चादीक्षणमन्वीक्षा सा प्रयोजनं

 
[^
]. 'दुर्लभं' ख.
[^
]. 'खचति' ख.
[^
]. 'एव' ख.
 
Digitized by Google