This page has not been fully proofread.

२१६
 
इदानीं स्वावस्थां निवेदयति कविः-
मूर्तिर्धूर्ति प्रथयति यथा मञ्जरी जीर्णपर्णा
कर्णाभ्यर्ण प्रसरति जरा सत्यतो मृत्युदूती ।
भोगा भोगा इव विदधतश्चेष्टितं वेष्टयन्ते
 
हन्तेदानीं शरणमपरं नास्ति नः शंभुभक्तेः ॥ १७ ॥
नोऽस्माकं मूर्तिस्तनुधूर्ति 'धुर्वी हिंसायां' धातुः । धातू नामनेकार्थत्वादूर्ति कम्पं ज
राशैथिल्येन प्रथयति विस्तारयति । का यथा । यथाशब्द इवार्थे । जीर्णपर्णा मञ्जरी
लता यथा धूर्ति कम्पं प्रथयति । यथा सत्यतो निश्चितं मृत्युदूती यमदूती जरा पलितं
नः कर्णाभ्यर्ण श्रोत्रसमीपं प्रसरति याति । तथा भोगा विषयाः शब्दाद्या वेष्टितं बहिः-
स्पन्दं वेष्टयन्ते परिवलितं नः कुर्वते । हन्त कष्टे । इदानीमस्यामवस्थायां शंभुभक्तेः
श्रीशिवभक्तेः सकाशात्रोऽस्माकमपरं शरणं पालयितृपर्यायं नास्ति ॥
 
काव्यमाला ।
 
यत्र ध्वान्तक्षपणनिपुणं दुर्बलं धाम चान्द्रं
 
सान्द्रं यत्र ग्लपयति तमस्तापनो यन्न तापः ।
यत्र प्रेङ्खन्न कैचति शिखी तेजसान्येन सत्रा
 
तत्रालोकं दिशति विषमे शांभवी भक्तिरेका ॥
 
१८ ॥
 
ध्वान्तस्य बाह्यतिमिरस्य क्षपणं निराकरणं तत्र निपुणं कोविदं चान्द्रं धाम महो
यत्र मोहान्धतमसे निराकर्तव्ये दुर्बलमसमर्थे भवति । यत्र च तापनः सूर्यसंबन्धी ताप
उद्दघोतोऽपि तमोऽविद्यापर्यायं न ग्लपयति न नाशयति । यत्र च प्रेङ्खनुल्लसञ्शिखी
अमिरन्येन तेजसा ग्रहतारामणिविशेषादिजेन सत्रा सह न कचति न दीप्यते तत्र
विषमेऽतिसंकटे मोहान्धतमसे एकैव शांभवी भक्तिरालोकं प्रकाशं दिशति ददाति ।
तथा च 'न तत्र सूर्यो भाति न चन्द्रतारके नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव
भान्तमनु भाति सर्वे तस्य भासा सर्वमिदं विभाति ॥' इति रहस्यश्रुतिः । अतश्च तस्यैव
परज्योतिषो भावनयाज्ञानतमोनिवृत्तिरात्यन्तिकी भवतीत्यर्थः ॥
 
मा भूद्भूयोऽभ्यसनसुलभान्वीक्षिकी नाम विद्या
 
हृद्या दूरे विहरतु वियत्खण्डिनी दण्डनीतिः ।
क्वापि स्थेम्ना लसतु कलितोल्लाघवार्तापि वार्ता
 
नार्तावर्ह किमपि शरणं शंभुभक्ति विनान्यत् ॥ १९ ॥
नाम निश्चये । अतिशयेन बहुर्भूयः । तादृग्यदभ्यसनमभ्यासस्तेन सुलभा भूयोऽभ्य-
सनसुलभा आन्वीक्षिकी प्रत्यक्षागमाभ्यामीक्षितस्य पश्चादीक्षणमन्वीक्षा सा प्रयोजनं
१. 'दुर्लभं' ख. २. 'खचति' ख. ३. 'एव' ख.
 
Digitized by Google