This page has not been fully proofread.

१२
 
काव्यमाला ।
 
अवाप्य गुरुभिर्गुणैर्जगति गौरवं ध्यायत-
स्तमीरमणशेखरं भवति गौरवन्ध्या यतः ।
अतस्तमुमया समं कृतमहाविलासं प्रति
 
स्तुतौ विरचिता मया मतिरनाविला संप्रति ॥ २८ ॥
 
अवाप्येति । मया कर्त्रा अनाविला अकलुषा मतिर्बुद्धिः [स्तुतौ] विरचिता । कं प्रति ।
तं प्रति । कदा । संप्रति इदानीम् । किंभूतं तम् । कृतमहाविलासम् । कृता महान्तो
विलासा येन तम् । कया समम् । उमया पार्वत्या समम् । कुतो हेतोः । अतः । अतः कुत
इत्याह – अवाप्येत्यादि । गौर्वाणी अवन्ध्या सफला यतो भवति । कस्य । तमीरमण-
शेखरं चन्द्रमौलिं ध्यायतः । अर्थाद्भक्तस्य । किं कृत्वा । गुरुभिर्गुणैः पाण्डित्यकवित्वा-
दिभिगौरवमवाप्य । कुत्र । जगति । इदमपि वृत्तं पादान्तयमकम् ॥
मत्वा सद्यः सुकृतसुहृदं दुर्लभं जीवलोकं
 
लब्ध्वा सर्वव्यसनशमनं मित्रमेकं विवेकम् ।
धन्याः केचित्कृतकुमुदिनीकान्तलेखावतंसं
 
हंसं शंसन्त्यमलमघुरैर्भक्तिसिक्तैर्वचोभिः ॥ २९ ॥
 
मत्वेति । सुकृतस्य पुण्यस्य सुहृदम् । सुकृतेन मानुष्यकप्राप्तिः । मानुष्यकसाइच-
र्येण सुकृतं वर्धत इत्याशयः । भूयो दुर्लभं जीवलोकं मत्वा । तथा सर्वव्यसनानां मृग-
यादीनां शमनमेकं मित्रं विवेकं लब्ध्वा । अमलानि च तानि मधुराणि च तैः । तथा
भक्त्या वाङ्मनःकायासक्त्या सिक्तैः । भक्तिरसामृत सिक्तैर्वचोभिः केचित्कतिपय
एव धन्याः सुकृतिनो हंसं परमात्मानं परमशिवं स्तुवन्ति । 'हंसो विहंगभेदे स्यादर्के
विष्णौ इयान्तरे । योगिमन्त्रादिभेदेषु परमात्मनि मत्सरे ॥' इति विश्वः । किंभूतं श्री-
शिवम् । कृतेत्यादि । कृतः कुमुदिनीकान्तलेखावतंसश्चन्द्रकलावतंसो येन तम् ॥
अन्तः शून्यं गुणविरहितं नीरसं सर्गहीनं
 
काव्यं हृद्यं ननु सुमनसां न स्थलाम्भोरुहाभम् ।
तत्रापीशः श्रवणपुलिने गाढरागानुबन्ध-
प्रोद्यद्भक्तिप्रगुणितमदः कर्तुमर्हत्यगईम् ॥ ३० ॥
 
अन्तः शून्यमिति । ननु निश्चये । काव्यं निपुणक विकर्म । सुमनसां विदुषाम् ।
'सुमनाः स्त्री पुष्पजात्योर्देवपण्डितयोः पुमान्' इति मङ्गः । तेषां हृद्यं हृदयप्रियं न भ
वति । किंभूतम् । स्थलाम्भोरुहाभम् । शब्दसाम्येन स्थलकमलतुल्यम् । अत्र हेतुमाह -
काव्यं किंभूतम् । अन्तः शून्यं लक्ष्यव्यङ्ग चार्थरहितम् । तथा गुणैरोजःप्रसादमाधुर्या-
रुयैस्त्रिभिर्वैिरहितम् । तथा नीरसं रसाच्छृङ्गारादेनिर्गतम् । तथा सगैंः सर्गबन्धैहींनम् ।
 
Digitized by Google