This page has been fully proofread once and needs a second look.

२५४
 
काव्यमाला ।
 
भार्गीगीं भक्ति दधति हृदये निस्तरङ्गामभङ्गां

गङ्गातीरे विहितरतयो दुर्लभाः पूरुषास्ते ॥ ११ ॥
 

 
दम्भस्य स्तम्भस्तेन स्थगिता रुद्धा मतिर्येषां ते । तथा 'मह्यन्ते पूज्यन्ते कामिजनेन

महिला महेलाञ्श्च' इति स्वामी । सावहेला रूपगर्वेण कामिषु सावगणना या महेला

वराङ्गनास्तासां हेलालापास्तैर्भ्रमिता मतिर्बुद्धिर्येषां ते तादृशा असंख्याः संख्योत्तीर्णाः

पुमा॑मांसो मर्त्याः सन्ति । ये पुनर्गङ्गातीरे जाह्नवीतटे विहिता रतिः स्थानं यैस्तादृशाः

सन्तो निस्तरङ्गां निश्चलामभङ्गामक्षयां भार्गी भक्तितिं भुज्यन्ते दह्यन्तेऽनेन कालकामाद्या

भर्गः श्रीशंभुस्तत्संबन्धिनीं भक्तितिं हृदि हृदये दधति त एव पूरुषा नरा दुर्लभाः ॥

 
शंभो दम्भो दहति कुहकारम्भसंभावनाभिः

साभिद्वेषस्त्विषमपकषत्येष रोषप्रदोषः ।

सावष्टम्भं भ्रमयति बृहन्मामहंकारभारः
 

पारं नेतुं प्रभवति भवद्भक्तिरेका भवाब्धेः ॥ १२ ॥
 

 
हे शंभो, कुहकस्य द्रोहस्य य आरम्भस्ताभिर्हेतुभिरेष दम्भो मां दहति । तथा

सहामिद्वेषेण परोत्कर्षासहिष्णुत्वेन वर्तते यः साभिद्वेषो रोष एव प्रदोषो रजनीमुखं
स्

त्
विषंधं दीप्तिं ममापकषति निवारयति । 'कष विलेखने' धातुः । तथा बृहन्महानहंकार-

भारो गर्वभारः सावष्टम्भं सगर्वं मां भ्रमयति । कुपथेष्वित्यर्थः । अतो भवान्धीब्धौ पतितं

मां भवाब्धेः पारं नेतुमेका भवद्भक्तिरेव प्रभवति ॥
 

 
द्राक्संत्ते युधमधिधनुर्बद्धबाणाभिरामैः

सभ्रूभङ्गैर्लटभललनापाङ्गभङ्गैरनङ्गः ।

दोषप्लोषक्षमशमपथापातमातन्वती मे
 

भीमे भक्तिर्भगवति गतिश्चक्षुषश्चन्द्रिकेव ॥ १३ ॥
 

 
अधिधनुर्धनुषि बद्धा योजिता ये बाणास्तद्वदभिरामै र्भ्रूभङ्गसहितैर्लटभललनानां प्र

गल्भाङ्गनानामपाङ्गभङ्गा नेत्रान्ततरङ्गास्तैरनङ्गः कामो युधं समरं द्राक् शीघ्रं संधत्ते ।

मां प्रति युद्धाय सज्जोऽस्तीत्यर्थः । अतो हेतोर्दोषाः कामक्रोधाद्यास्तेषां प्लोषे दाहे क्षमो

यः शमो जितेन्द्रियत्वं तस्य पन्थास्तत्रापातमातन्वती कुर्वती भगवति भीमे श्रीशिवे

भक्तिरेका मे गतिः । नान्या गतिरित्यर्थः । केव । चक्षुषो मरुभ्रमणसंतप्तस्य चन्द्रिका

ज्योत्स्नेवैका गतिः । सापि दोषाणां पित्तधातुकृतानां प्लोषे क्षमा ॥
 

 
कामः कामं धनुरनुनिशं कौसुमः संवृणोतु
 

व्यालं कालः स्वकरकुहरे भग्नभोगं विधत्ताम् ।
 
Digitized by Google