This page has not been fully proofread.

१७ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः
 

 
२५१
 
फलोत्तमा । 'द्राति रसमिति द्राक्षा' इति स्वामी । कं न सचेतनं विस्मयेनाद्भुतेन स्मेर-
मुखं जनयति । तथा भूरिच्छिद्राद्वहुरन्ध्राद्वंशगर्भाद्वेण्वन्तरादुत्पन्ना प्रकृत्या स्वभावेन
मधुरा मनोहरा मूर्छना स्वराणामारोहावरोहरूपा कं न विस्मयस्मेरवकं करोति । एवमेव
मम मुखात्सूक्तिव्याजेन निर्गच्छन्ती श्रोत्रपेयेयं सुधा श्रीशिवभट्टारकस्तुतिरूपा कं न जनं
विस्मयेन स्मेरमुखं जनयति ॥
 
ध्यात्वा देव प्रमयसमयत्रासमासन्नकल्पं
 
स्वल्पं ज्ञात्वा सुलभशलभच्छायसच्छायमायुः ।
मत्वा च त्वा सदयहृदयं भक्तिवाल्लम्यलभ्यं
 
सभ्यंमन्यास्तव नवविधौ धौतचित्ता यतन्ते ॥ ३॥
 
हे देव, दीव्यति परमे धाम्नीति देवस्तत्संबोधनम् । प्रमयसमयान्मृत्युसमयात्रासं भ
यमासन्नकल्पमीषदसमाप्त आसन्न आसन्नकल्पस्तादृशं निकटस्थं ध्यात्वा संचित्य तथा
 
शलभानां छाया शलभच्छायं तत्सदृशमायुः स्वकीयं ज्ञात्वा तथा (त्वा) त्वां च सदय-
हृदयं कृपामृतामनस्कं भक्तिवाल्लभ्येन केवलभक्तिस्नेहेन लभ्यं च मत्वा सभ्यमात्मानं
मन्यन्त इति सभ्यंमन्या धौतचित्ता धौताशया यतन्ते यत्नं कुर्वन्ति । कुत्र । तव वि
भोर्नवविधौ स्तवविधौ । 'णु स्तुतौ' धातुः ॥
 
कण्ठे कण्ठीरवरवसहग्हक्समुद्गोद्गताश्रो-
हेलोन्मीलद्विपुलपुलकोद्भूतभूतेशभक्तेः ।
यस्योदेति ध्वनिरनिभृतः शर्वशर्वेत्यखर्व
 
गर्व बिभ्रद्धसति वसतिं वासवीयां स एकः ॥ ४ ॥
दृशौ नेत्रे एव समुद्गौ·····उद्गताश्रोः । तथा हेलयोन्मीलन्तः पुलका यस्यां सा
तादृशी उद्भूता भूतेशभक्तिः परमेशभक्तिर्यस्य स तादृशस्य यस्य धन्यस्य । कण्ठ्यां
गले रवो यस्य स कण्ठीरवः सिंहः । कण्ठशब्दस्त्रिलिङ्गः । सिंहनादसहगनिभृतः प्रस्फुटः ।
हे शर्व । शृणाति हिनस्ति कालामिरुद्ररूपेण महाप्रलये शिवादिक्षित्यन्तं जगदिति शर्वः ।
हे शर्व, त्वं पाहीति ध्वनिरुदेति स एकः सुकृती अखर्वे महान्तं गर्व बिभ्रद्वासवीया-
मिन्द्र संबन्धिनीं वसतिं इसति । ऐन्द्रं पदं विडम्बयतीत्यर्थः ॥
 
तन्मानुष्यं प्रभवति सतामुत्तमा यत्र जातिः
 
सैका जातिः प्रसरति यशो यत्र पाण्डित्यहेतु ।
तत्पाण्डित्यं सरसमधुरा जृम्भते यत्र वाणी
 
वाणी सापि प्रथयति रतिं शांकरी यंत्र भक्तिः ॥ ९ ॥
 
हेतोः' क.
 
Digitized by Google