This page has been fully proofread once and needs a second look.

२५०
 
काव्यमाला !
 
तस्मादस्मान्रविशशिशिखिप्रेलिङ्खितोद्दामधाम

क्षिप्त्वा चक्षुर्मुदितमुदितावन्ध्यबोधान्विधेहि ॥ २७ ॥
 

 
हन्त खेदे । हे विभो, आयासितस्तनूकृतः सितः स्वच्छः शमो जितात्मत्वरूपो यया

सा तादृशी मायामविद्यारूपमज्ञानपर्यायं तम आसञ्जयन्त्युत्पादयन्ती आयामिनी वि

स्तारवती यामिनी रात्रिरिव अहन्ता नश्वरेऽपि देहेन्द्रियादावहंभावपर्याया मतेः प्रज्ञाया
हा

ह्रा
सो नाशस्तं प्रथयति विस्तारयति । न इति शेषः । तस्माद्धेतोः हे महेश, रविशशि-

शिखिभी रवीन्दुवह्निभिः प्रेसिङ्खितं प्रदीप्तमुद्भटं धाम तेजो यस्य तत्तादृशं मुदितं प्रसा-

दमधुरं चक्षुर्नेत्रं क्षिप्त्वा उदित उत्पन्नोऽवन्ध्यः सफलो बोधस्तत्वज्ञानं येषां ते तादृ-

शास्तान्नोऽस्मान्विघेधेहि कुर्विति शिवम् ॥
 

 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं काश्मीरक-

महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जला-

वुपदेशनस्तोत्रं षोडशम् ।
 

 
सप्तदशं स्तोत्रम् ।
 

 
अथातो भक्तिस्तोत्रं सप्तदशमारभमाण आ-

 
मन्दस्पन्दे मनसि रसिकीभावमासाद्य सद्यो

हृद्योद्योगा विहर वरदे भारति स्वा रतिस्ते ।

मातर्जातस्पृहमिह महामोहनिद्रावसाने
 

जानीहीमं जनमनलसं शंसितुं शंभुभक्तिम् ॥ १ ॥
 

 
वरं ददातीति वरदा तस्या आमन्त्रणं हे मातर्वरदे भारति सरस्वति, भक्त्यासक्ति
तिं
विनानन्यगतित्वान्मन्दस्पन्दे निःस्पन्दे मनसि । अर्थान्मे । सद्यस्तत्क्षणमेव रसिकी-

भावं समासक्तित्वमासाद्य हृद्यो मनःप्रिय उद्योगो यस्यास्तादृशी मदीये मनसि विहर

क्रीडां कुरु । ते तव स्वा रतिः स्वकीयेच्छा भवति । हे मातर्भारति, इहास्मिन्महां-

श्वासौ मोहोऽविद्यापरपर्यायोऽज्ञानमेव निद्रा तस्यावसाने श्रीशिवशक्तिपातावलब्धमो-

हनिद्रावसाने इमं जनं मल्लक्षणं श्रीशंभुभक्तितिं शंसितुं वर्णयितुमनलसमालस्यरहितं जा

तस्पृहमुदिताभिलाषं जानीहि ॥
 

 
द्राक्षा साक्षादमृतलहरी कर्कशात्काष्ठकोषा-

द्भूरिच्छिद्रात्प्रकृतिमधुरा मूर्छना वंशगर्भात् ।

सूक्तिव्याजान्मम च वदनात्कर्णपेया सुधेयं
 

निर्गच्छन्ती जनयति न कं विस्मयस्मेरवक्रम् ॥२॥

 
कर्कशात्कठोरात्काष्ठकोषाद्वल्लीरूपकाष्ठान्तरात्साक्षात्प्रत्यक्षत एव सुधालहरी द्राक्षा
 
Digitized by Google