2023-02-23 21:27:40 by ambuda-bot
This page has not been fully proofread.
२५०
काव्यमाला !
तस्मादस्मान्रविशशिशिखिप्रेलितोद्दामधाम
क्षिप्त्वा चक्षुर्मुदितमुदितावन्ध्यबोधान्विधेहि ॥ २७ ॥
हन्त खेदे । हे विभो, आयासितस्तनूकृतः सितः स्वच्छः शमो जितात्मत्वरूपो यया
सा तादृशी मायामविद्यारूपमज्ञानपर्यायं तम आसञ्जयन्त्युत्पादयन्ती आयामिनी वि
स्तारवती यामिनी रात्रिरिव अहन्ता नश्वरेऽपि देहेन्द्रियादावहंभावपर्याया मतेः प्रज्ञाया
हासो नाशस्तं प्रथयति विस्तारयति । न इति शेषः । तस्माद्धेतोः हे महेश, रविशशि-
शिखिभी रवीन्दुवह्निभिः प्रेसितं प्रदीप्तमुद्भटं धाम तेजो यस्य तत्तादृशं मुदितं प्रसा-
दमधुरं चक्षुर्नेत्रं क्षिप्त्वा उदित उत्पन्नोऽवन्ध्यः सफलो बोधस्तत्वज्ञानं येषां तादृ-
शास्तान्नोऽस्मान्विघेहि कुर्विति शिवम् ॥
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाजला-
वुपदेशनस्तोत्रं षोडशम् ।
सप्तदशं स्तोत्रम् ।
अथातो भक्तिस्तोत्रं सप्तदशमारभमाण आई-
मन्दस्पन्दे मनसि रसिकीभावमासाद्य सद्यो
हृद्योद्योगा विहर वरदे भारत स्वा रतिस्ते ।
मातर्जातस्पृहमिह महामोहनिद्रावसाने
जानीहीमं जनमनलसं शंसितुं शंभुभक्तिम् ॥ १ ॥
वरं ददातीति वरदा तस्या आमन्त्रणं हे मातर्वरदे भारति सरस्वति, भक्त्यासक्ति
विनानन्यगतित्वान्मन्दस्पन्दे निःस्पन्दे मनसि । अर्थान्मे । सद्यस्तत्क्षणमेव रसिकी-
भावं समासक्तित्वमासाद्य हृयो मनःप्रिय उद्योगो यस्यास्तादृशी मदीये मनसि विहर
क्रीडां कुरु । ते तव स्वा रतिः स्वकीयेच्छा भवति । हे मातर्भारति, इहास्मिन्महां-
श्वासौ मोहोऽविद्यापरपर्यायोऽज्ञानमेव निद्रा तस्यावसाने श्रीशिवशक्तिपातावलब्धमो-
हनिद्रावसाने इमं जनं मल्लक्षणं श्रीशंभुभक्ति शंसितुं वर्णयितुमनलसमालस्यरहितं जा
तस्पृहमुदिताभिलाषं जानीहि ॥
द्राक्षा साक्षादमृतलहरी कर्कशात्काष्ठकोषा-
द्भूरिच्छिद्रात्प्रकृतिमधुरा मूर्छना वंशगर्भात् ।
सूक्तिव्याजान्मम च वदनात्कर्णपेया सुधेयं
निर्गच्छन्ती जनयति न कं विस्मयस्मेरवक्रम् ॥२॥
कर्कशात्कठोरात्काष्ठकोषाद्वल्लीरूपकाष्ठान्तरात्साक्षात्प्रत्यक्षत एव सुधालहरी द्राक्षा
Digitized by Google