This page has been fully proofread once and needs a second look.

१६ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२४९
 
अतिप्रशस्यमित्यर्थः । तथा प्रकर्षेण दर्शितः समप्ग्रः सकलो विग्रहो वैरं येन स तादृशः ।

तथा प्रकर्षेण इसन्सादृहासो यो मनस्विजनस्तेन गर्हिता स्थितिर्यस्य स तादृशो मदो

गर्वः क्व । नितान्तगर्ह्य इत्यर्थः । हे क्षणदाविशेषकशिखाशिखामणे चन्द्रकलाशिरोमणे

शंभो, इत्यनेन प्रकारेणानर्गलमकार्यकरणेऽपि निर्निरोधं तथा कुमार्गमार्गणे प्रवणो ली-

नश्चासावविवेकस्तेन विकलीकृतो विह्वलीकृत आशयो यस्य स तादृशं मां हे करुणा-

निधान शंभो, क्षणं परिबोधय सावबोधं कुरु । संदानितकम् ॥
 

 
प्रमदा मदारुणदृशः कृशोदरास्तनया नयानतसमस्तमस्तकाः ।

सुहृदो हृदन्तरगतेङ्गितस्पृशः प्रणयार्द्रनिर्भरगिरिश्च बन्धवः ॥ २४ ॥

 
दधतः प्रसादमधुरां धुरामपि प्रभवोऽमृतद्रवसमानमानसाः ।

मुखवीक्षणप्रणयिनः प्रतिक्षणं परिचारकाश्च जयजीववादिनः ॥ २५ ॥

 
न भयं भयंकरकृतान्तकिंकरभ्रुकुटीभवं झटिति हन्तुमीशते ।

भजतामतः क्षपयदापदं पदं हृदये दयामृतनिधे निधेहि नः ॥ २६ ॥

(तिलकम्)
 

 
हे दयामृतनिधे कृपामृताम्बुधे श्रीशिव, अतः कारणादापदं जन्ममरणसंकटरूपां वि

पदं क्षपयन्नाशयत्पदं स्थानं नोऽस्माकं हृदये चित्ते निधेहि । अतः कुत इत्याह - प्र

मदेत्यादि । यत एते प्रमदाप्रभृतयो भयानकयमदूत भ्रुकुटीभवं भयं हन्तुं शीघ्रमेव भ

जतां भक्तजनानां न क्षमन्ते अतः । के ते इत्याह - प्रमदाः कृशोदर्यस्तनूदराः । मदेन

क्षैव्येब्योनारुणा रक्ता दृशो यासां तादृशाः प्रमदा वरकामिन्यः क्रुद्धयमदूत भ्रुकुटीभवं भयं

हन्तुं यतो न क्षमन्ते । एवमग्रेऽपि । तथा नयेन नीत्या विनयेन चासमन्तान्नतं
प्रहं

प्रह्वं
समस्तं मस्तकं शिरो येषां तादृशास्तनयाः सुताश्च प्रागुक्तं भयं हन्तुं न क्षमन्ते ।

तथा हृदन्तरगतं मनोगतं यमभिदिङ्गितप्रायरूपं तत्स्पृशन्ति तादृशाः सुहृदः सखायो-

ऽपि न क्षमन्ते । तथा प्रणयेन स्नेहेनार्द्रा निर्भरा पूर्णा च गीर्वाग्येषां तादृशा बन्धवश्च

न क्षमन्ते । प्रसादेनानुग्रहेण मधुरां रम्यां धुरं ज्येष्ठतामपि दधतो बिभ्रतः । तथामृत-

प्रवाहसमानं मानसं येषां ते तादृशाः प्रभवो विभवोऽपि न क्षमन्ते पूर्वोक्तं भयं हन्तुम् ।

तथा प्रतिक्षणं मुखदर्शनं काङ्क्षमाणा त्वं जयेति त्वं जीवेति च वादिनः परिचारका भू-
भृ
त्याश्च प्रागुक्तं भयं हन्तुं भजतां जनानां न क्षमन्तेऽतस्त्वं दयां विधायास्मद्धृदये पदं

निघेधेहीति ॥ तिलकम् ॥ एतद्वृत्तार्थानुसारेण ममाप्येकं वृत्तम् - 'तातस्त्राता न हित-

सहजाश्वासनं यत्र चाम्बास्नेहारम्भो भवति च मृषा बन्धवो यत्र वन्ध्याः । चौराहार्
यं
क्षयविरहितं खिद्यतां देहभाजामेकं तस्मिन्पथि सुमधुरं शम्बलं शंभुनाम ॥" इति ॥

अथात एतस्य स्तोत्रस्योपसंहारवृत्तमाह-

 
हन्ताहन्ता प्रथयति मतिहाह्रासमासञ्जयन्ती
 

मायामायासितसितशमायामिनी यामिनीव ।
 
३२
 
Digitized by Google