2023-02-23 21:27:40 by ambuda-bot
This page has not been fully proofread.
१६ स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
२४९
अतिप्रशस्यमित्यर्थः । तथा प्रकर्षेण दर्शितः समप्रः सकलो विग्रहो वैरं येन स तादृशः ।
तथा प्रकर्षेण इसन्सादृहासो यो मनस्विजनस्तेन गर्हिता स्थितिर्यस्य स तादृशो मदो
गर्वः क्व । नितान्तगर्ह्य इत्यर्थः । हे क्षणदाविशेषकशिखाशिखामणे चन्द्रकलाशिरोमणे
शंभो, इत्यनेन प्रकारेणानर्गलमकार्यकरणेऽपि निर्निरोधं तथा कुमार्गमार्गणे प्रवणो ली-
नश्चासावविवेकस्तेन विकलीकृतो विह्वलीकृत आशयो यस्य स तादृशं मां हे करुणा-
निधान शंभो, क्षणं परिबोधय सावबोधं कुरु । संदानितकम् ॥
प्रमदा मदारुणदृशः कृशोदरास्तनया नयानतसमस्तमस्तकाः ।
सुहृदो हृदन्तरगतेङ्गितस्पृशः प्रणयार्द्रनिर्भरगिरिश्च बन्धवः ॥ २४ ॥
दधतः प्रसादमधुरां धुरामपि प्रभवोऽमृतद्रवसमानमानसाः ।
मुखवीक्षणप्रणयिनः प्रतिक्षणं परिचारकाश्च जयजीववादिनः ॥ २५ ॥
न भयं भयंकरकृतान्तकिंकरभ्रुकुटीभवं झटिति हन्तुमीशते ।
भजतामतः क्षपयदापदं पदं हृदये दयामृतनिधे निधेहि नः ॥ २६ ॥
(तिलकम्)
हे दयामृतनिधे कृपामृताम्बुधे श्रीशिव, अतः कारणादापदं जन्ममरणसंकटरूपां वि
पदं क्षपयन्नाशयत्पदं स्थानं नोऽस्माकं हृदये चित्ते निधेहि । अतः कुत इत्याह - प्र
मदेत्यादि । यत एते प्रमदाप्रभृतयो भयानकयमदूत भ्रुकुटीभवं भयं हन्तुं शीघ्रमेव भ
जतां भक्तजनानां न क्षमन्ते अतः । के ते इत्याह - प्रमदाः कृशोदर्यस्तनूदराः । मदेन
क्षैव्येनारुणा रक्ता दृशो यासां तादृशाः प्रमदा वरकामिन्यः क्रुद्धयमदूत भ्रुकुटीभवं भयं
हन्तुं यतो न क्षमन्ते । एवमग्रेऽपि । तथा नयेन नीत्या विनयेन चासमन्ताभतं
प्रहं समस्तं मस्तकं शिरो येषां तादृशास्तनयाः सुताश्च प्रागुक्तं भयं हन्तुं न क्षमन्ते ।
तथा हृदन्तरगतं मनोगतं यमभिप्रायरूपं तत्स्पृशन्ति तादृशाः सुहृदः सखायो-
ऽपि न क्षमन्ते । तथा प्रणयेन स्नेहेनार्द्रा निर्भरा पूर्णा च गीर्वाग्येषां तादृशा बन्धवश्च
न क्षमन्ते । प्रसादेनानुग्रहेण मधुरां रम्यां धुरं ज्येष्ठतामपि दधतो बिभ्रतः । तथामृत-
प्रवाहसमानं मानसं येषां ते तादृशाः प्रभवो विभवोऽपि न क्षमन्ते पूर्वोक्तं भयं हन्तुम् ।
तथा प्रतिक्षणं मुखदर्शनं काङ्क्षमाणा त्वं जयेति त्वं जीवेति च वादिनः परिचारका भू-
त्याश्च प्रागुक्तं भयं हन्तुं भजतां जनानां न क्षमन्तेऽतस्त्वं दयां विधायास्मद्धृदये पदं
निघेहीति ॥ तिलकम् ॥ एतद्वृत्तार्थानुसारेण ममाप्येकं वृत्तम् - 'तातस्त्राता न हित-
सहजाश्वासनं यत्र चाम्बास्नेहारम्भो भवति च मृषा बन्धवो यत्र वन्ध्याः । चौराहार्य
क्षयविरहितं खिद्यतां देहभाजामेकं तस्मिन्पथि सुमधुरं शम्बलं शंभुनाम ॥" इति ॥
अथात एतस्य स्तोत्रस्योपसंहारवृत्तमाह-
हन्ताहन्ता प्रथयति मतिहासमासञ्जयन्ती
मायामायासितसितशमायामिनी यामिनीव ।
३२
Digitized by Google