This page has not been fully proofread.

२४८
 
काव्यमाला ।
 
धौतचेतसो विद्वांसोऽपि मां परितो वर्जयन्ति । हे महेश, ते आभ्यन्तराः कामक्रो-
धाद्याः शत्रवो विधुरं भीतं मां यथा न जयन्ति तथा कुरु । त्वमेयागच्छ । शीघ्रमित्य-
र्थात् । दृशमनुग्रहदृष्टिं च नोऽस्मभ्यं देहि ॥ पञ्चभिः कुलकम् ॥
 
क्व संपदः ॥ २० ॥
 
क्व महेश्वरस्मरणसंभवं भवभ्रमभीमघर्मशमसंमुखं सुखम् ।
विपदां पदं मृदुमृणालिनीदलस्खलदम्बुबिन्दुतरलाः
क्व शिवेश्वरेति कृतगण्डमण्डलीपुलकोद्गमप्रमदमन्थरा
क्व यथार्थपार्थिवनिरर्थकानृतस्तुतिविस्तरैरपथपातपातकम्
क्व समाधिबाधितदुराधिसाधिमा भवसंभवश्रमदमक्षमः शमः ।
क्व मदः प्रदर्शितसमग्रविग्रहः प्रहसन्मनस्विजनगर्हितस्थितिः ॥२२॥
इति
 
गिरः ।
॥ २१ ॥
 
मामनर्गलममार्गमार्गणप्रवणाविवेकविकलीकृताशयम् ।
करुणानिधान परिबोधय क्षणं क्षणदाविशेषकशिखाशिखामणे ॥२३॥
 
(चक्कलकम् )
 
महेश्वरस्य ब्रह्मविष्णुरुद्रेश्वरसदाशिवशिवानामपि षण्णां कारणानामीश्वरो महेश्वरः
परमशिवस्तस्य स्मरणं तस्मात्संभवो यस्य तत्तादृशं सुखं विगलितवेद्यान्तरपरमानन्द-
रूपं क्व भवति । अत्युत्कृष्टं भवतीत्यर्थः । किंभूतम् । भवे संसारेऽर्थान्मरुरूपे यो भ्रमो
भ्रमणं स एव भीमो धर्मों निदाघस्तस्य शमे शान्तौ संमुखम् । तथा मृदु कोमलं
थन्मृणालिनीदलं कमलिनीदलं तत्र स्खलन्पतन्योऽम्बुबिन्दुर्वारिकणस्तद्वत्तरला च-
बलाः । तथा विपदां संपत्स्वपि दुष्कृतकर्मस्खलितचित्तत्वेन परिणामेऽत्यन्तदुःखदा-
यित्वात्पदं स्थानं संपदः श्रियः क्व भवन्ति । नित्यग इत्यर्थः । हे शिव, आत्यन्तिक-
दुःखनिवृत्तिरूपकैवल्यदायिन्, हे ईश्वर त्रिजगदधीश । मां पाहीत्यर्थात् । एवंभूता गिरो
वाचः क्व भवन्ति । सकलविद्वज्जनमनोहरा इत्यर्थः । किंभूताः । कृतेत्यादि । कृतो
गण्डमण्डल्यां कपोलपाल्यां पुलकोद्गमो रोमाञ्चोद्भवो येन स तादृशो यः परमानन्द-
स्तेन मन्थरा अलसाः । तथा यथार्थ : सार्थः पश्चानामपि महाभूतानां पृथ्वीतत्त्वेनैवा-
धिकेन मनुष्यसृष्टेः पार्थिवः पृथिव्या निर्मित इति सार्थकः । अत्र 'वृथार्थ' इत्यपि पाठः ।
तत्पक्षे सम्यक्प्रजापालनादीनां पार्थिवगुणानामसंभवाद्वृथार्था ये पार्थिवास्तेषां या नि-
रर्थका व्यर्था अनृतासत्या स्तुतिस्तस्या विस्तारैः कुमार्गपातरूपं पातकं क्व । अत्यन्तग
ईणीयमित्यर्थः । योगेनात्ममनसोरैक्यं समाधिस्तेन बाधितो दुराधीनां जन्मजरामरण-
त्रासरूपाणां मनःपीडानां साधिमा बाढलं येन स तादृशो भवसंभवो भवमरुभ्रमणजो
यः श्रमस्तस्य दमे क्षमः शमो जितेन्द्रियत्वम् । जितात्मत्वमिति यावत् । तत्क्क ।
 
१. 'भ्रमशमक्षमः' ख. २. 'संदानितकम्' ख.
 
Digitized by Google