This page has not been fully proofread.

१६ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
अथातः कामक्रोधादीनत्यक्तमनसोऽन्तःप्रहरतो वर्णयति-
दषदुद्धतं हर पुरः पुरंधिभिः प्रबलं बलं वलदपाङ्गभङ्गिभिः ।
हृदयं भिनत्ति मम घस्मरः स्मरः शेरपातकातरदृशो भृशं कृशम् १५
जनयन्नयं नयनयोरधीरतां भ्रमयन्ध्रुवं भृशमदभ्रसंभ्रमाम् ।
लथयन्प्रयत्नकृतसंगमं शमं हसनीयतां नयति रोष ईश माम् ॥ १६ ॥
धनलाभसंभृतविलासवासनाव्यथमानमानसमसत्यसंगरम् ।
नैविशोभिलोभविवशं स्पृशन्ति मां सुहृदोऽपि कोपितकदर्थितार्थिनम् १७
उचितत्रिवर्गरहितं तिरोहितं घनमोहमूढमनसं हसन्ति माम् ।
कृतमेधसामधिसदः सदः सदः सदसद्विवेकविकलं कलङ्कितम् ॥ १८ ॥
इति तर्जयन्ति रिपवः सुदुर्जयाः परिवर्जयन्ति च विशुद्धबुद्धयः ।
न पुनर्जयन्ति विधुरं यथा तथा कुरु हे महेश दृशमेहि देहि नः १९
(पञ्चभिः कुलकम् )
 
२४७
 
है हर भवामयहर, पुरोऽग्रे वलन्ती सविभ्रममपाङ्ग भङ्गिनेत्रान्तविच्छित्तिर्यासां ता-
स्तादृशीभिः पुरंध्रभिः सुचरित्राभिर्वरवधूभिः प्रबलमुद्धतं बलं दधत् । शरपातेन काम-
शरपातेनातिकातरा दृग्यस्य स तादृशस्य मम भृशमत कृशं हृदयं घस्मरो जगद्भक्षकः
स्मरो भिनत्ति । हे ईश त्रिलोकनाथ, नयनयोर्नेत्रयोरधीरतां तारल्यं जनयन् । तथा
भृशमत्यर्थमदभ्रसंभ्रमां घनव्याकुलीभूतां ध्रुवं भ्रमयन्घूर्णयन् । तथा प्रकृष्टयत्नेन कृतः
संगमो येन स तादृशं बहुयत्नलभ्यमपि शमं जितेन्द्रियभावं श्लथं कुर्वन् । एष रोष:
क्रोधो मां इसनीयतां विडम्बनीयतां नयति । धनस्य लाभस्तेम संभृता ये विलासास्तेषु
वासना तया व्यथमानं मानसं यस्य स तादृशम् । तथा असत्यसंगरं मिथ्याप्रतिज्ञम् ।
तथा विशोभो निःश्रीको यो लोभस्तेन विवशो विहलस्तादृशम् । तथा कोपिता: सको-
पीकृताः कदर्थिता विमुखीकृता अर्थिनो येन स तादृशं मां सुहृदोऽपि सखायोऽपि न स्पृ-
शन्ति । किं पुनरपरे जनाः । उचितो युक्तो यस्त्रिवर्गो धर्मार्थकामानां त्रयाणां वर्गस्तेन
रहितम् । तथा तिरोहितं तिरस्कृतम् । साधुजनेनेत्यर्थात् । तथा घनश्चासौ मोहोऽज्ञानं
तेन मूढं मनो यस्य स तादृशस्तम् । तथा सदसतोः कार्याकार्ययोर्विवेकस्तेन विकलो
रहितस्तादृशम् । कलङ्कितं सकलङ्क मां कृतधियां मनीषिणामधिसदः सदसि सदः सदः
सभ्यजना हसन्ति विडम्बयन्ति । हे महेश ब्रह्मादीनामप्यधीश, सुष्ठु अत्यर्थ दुर्जया
रिपवः शत्रवः कामक्रोधलोभमोहाख्या मां तर्जयन्ति भर्त्सयन्ति । तथा विशुद्धबुद्धयो
 
१. 'शरघात' ख. २. 'नवशोभि' क.
 
Digitized by Google