2023-02-23 21:27:40 by ambuda-bot
This page has not been fully proofread.
२४६
हरिणैः कुशाग्रकवलाभिलाषिभिर्भरणार्थिमिश्च कलकिङ्कशावकैः ।
अतिथीभवद्भिरहताह्निकक्रियाः फलमूलकल्पितशरीरवृत्तयः ॥ ११ ॥
दिवसावसानसमये सरन्मरुत्परिकीर्णजीर्णतृणपर्णमर्मराः ।
तनुजाह्नवीसलिलशीकरोत्करैः शिशिराः शिवाय चरिता वनस्थलीः१२
धवलीकृतास्वमलभानुभानुभिर्ज्वलितौषधीषु रजनीष्वनन्तरम् ।
कलकण्ठकण्ठकुहरोद्गतस्वरस्वरसार्पितश्रुतिसुखासु शेरते ॥ १३ ॥
इति बिभ्रतः परिकरं प्रियंकरं हरपादपङ्कजरजःप्रसादजम् ।
विहसन्ति मूढमनसां महीभुजां गजकर्णतालतरलाश्रयाः श्रियः ॥ १४ ॥
(षेड्भिः कुलकम्)
पुनः पक्षान्तरे । पूर्वोक्तधनलवलुब्धासंतुष्टजनेभ्यो व्यतिरिक्ताः सदा संतोषयुक्ताः
कृतिनो धन्याः कोमलमृदङ्गध्वनिनिभस्वनिता निर्झरोर्मयो येषां तादृशेषु । सुलभहरि-
ततृणावलीभिर्वलितं स्थलं येषां तादृशेषु । 'ललित' इति पाठः । एवंभूतेषु तुहिनाद्रि-
सानुषु शिखरेषु कृतवृत्तयो रचितस्थितयः सन्तः । सुरसिन्धुरोधसि गङ्गातटे गृहीताः
पूजार्थंमुच्चिता याः केतक्यः केतकीकुसुमानि तामिश्चलितान्यङ्गुल्य एव किसलयानि
पल्लवानि यस्य स तादृशेन पाणिना कृपाब्धेः श्रीशिवस्य विविधां पञ्चोपचारपूर्विकां वि
धिना आगमोक्तेन पादपद्मपूजां विधाय कृत्वा त कृतिनो धन्याः पूजार्थमानीतानां
कुशाग्राणां प्रासाभिलाषुकैईरिणैः । तथा भरणार्थिभिः पोषणाभिलाषिभिः कलविङ्कशा-
वकै चटकपोतैः । अतिथीभवद्भिरथिरूपैः न हता आहिकक्रिया संध्याजपादिविधानं
येषां ते तादृशाः । फलेन वनफलेन मूलेन च शरीरयात्रापर्याप्तेन कृता शरीरवृत्तिर्यैस्ते
तादृशाः । तथा दिनान्तसमये सरन्प्रचलन्यो मरुद्वायुस्तेन परिकीर्णानि यानि जीर्णत
णपर्णानि तैर्मर्मरा: सशब्दाः । तथा तदनन्तरं तनवोऽल्पा ये गङ्गाजलशीकरास्तेषामु-
त्करैः समूहैः शिशिरा वनस्थलीः कर्मभूताश्चरिताः संचारिता: । किमर्थम् । शिवाय कै-
वल्यार्थम् । एवंभूता धन्याः । अमृतभानुभानुभिश्चन्द्रांशुभिर्धवलोकृतासु निघतासु ज्व
लितमहौषधीषु । कलकण्ठानां कुहूमुखानां यः कण्ठस्तस्य कुहरं विवरं तस्मादुद्गतो
यः स्वरः कुहूरवस्तेन स्वरसतोऽर्पितं श्रुतिसुखं याभिस्तास्तादृशीषु रजनीषु शेरते सुखं
निद्रां कुर्वन्ति । इति पूर्वोक्तेन प्रकारेण श्रीशिवचरणपङ्कजरजःप्रसादोत्यं प्रियंकरमतीव
मनोहरं परिकरं सहायसामग्रीरूपं बिभ्रतो गजानां हस्तिनां कर्णतालवच्चपल आश्रयः
स्थितिर्यासां तादृशीः श्रियो लक्ष्मीर्मूढमनसां महीभुजां राज्ञां विशेषेणादृहासरूपेण ह-
सन्ति ॥ षड्भिः कुलकम् ॥
१. 'चिराय' ख. २. 'दशभिः' ख.
काव्यमाला ।
Digitized by Google